दिव्येंदु-अधिकारिणः अध्यक्षतायां पश्चिम बंगाल विधानसभायाः 14 सदस्यीया उद्योग, वाणिज्य एवं उद्यम इत्येषां स्थायी समितिः गठिता
कोलकाता, 06 अगस्तमासः (हि.स.)। वर्षस्य २०२६–२७ कृते पश्चिमबङ्गविधानसभायाः उद्योगवाणिज्यउद्यमसम्बद्धा स्थायिसमितिः गठिता अस्ति। चतुर्दशसदस्यात्मिकायाः अस्याः समितेः अध्यक्षपदभारः मुख्यमन्त्रिणः शुभेन्दु-अधिकारिणः भ्रात्रे तथा भारतीयजनतापक्षस्य विधाय
दिव्येंदु-अधिकारिणः अध्यक्षतायां पश्चिम बंगाल विधानसभायाः 14 सदस्यीया उद्योग, वाणिज्य एवं उद्यम इत्येषां स्थायी समितिः गठिता


कोलकाता, 06 अगस्तमासः (हि.स.)। वर्षस्य २०२६–२७ कृते पश्चिमबङ्गविधानसभायाः उद्योगवाणिज्यउद्यमसम्बद्धा स्थायिसमितिः गठिता अस्ति। चतुर्दशसदस्यात्मिकायाः अस्याः समितेः अध्यक्षपदभारः मुख्यमन्त्रिणः शुभेन्दु-अधिकारिणः भ्रात्रे तथा भारतीयजनतापक्षस्य विधायकाय दिव्येन्दु-अधिकारिणे समर्पितः अस्ति।

इयं समितिः उद्योगवाणिज्यउद्यमादिविषयेषु नीतिसम्बद्धान् परामर्शान् प्रदाति तथा विविधविभागानां कार्याणां समीक्षामपि करोति।समित्याः अध्यक्षस्य दिव्येन्दु-अधिकारिणः नेतृत्वे गठितायामस्यां स्थायिसमितौ बिल्लेश्वरसिन्हा, बिस्वजीतमहतो, चिन्मयदेवबर्मन्, दिलीपसिंह, कृष्णेन्दुमुखर्जी, प्राणकृष्णतपादार, संजयकुमारसिंह, सिद्धार्थमजूमदार, सौमेनकारफा, सुदीप्तोदास, अखरुज्जमान, समरमुखर्जी, अरूपराय तथा बिमानबनर्जी इत्येते सदस्यत्वेन नियुक्ताः सन्ति।

Hindusthan Samachar / Dheeraj Maithani