Enter your Email Address to subscribe to our newsletters

हल्द्वानी , 06 अगस्तमासः (हि.स.)।
प्रान्तीयोद्योगव्यापारप्रतिनिधिमण्डलस्य महिलाप्रकोष्ठेन नैनीतालजनपदेन च आगामिनि ८ अगस्त २०२६ शनिवासरे हल्द्वानीस्थितायां परिणयवाटिकाबैङ्क्वेटहॉल इत्यत्र सायं त्रिवादनतः हरेलाक्वीन, सावनक्वीन तथा कुमाऊँनीपारम्परिकव्यञ्जनप्रतियोगितायाः भव्यः कार्यक्रमः आयोजयिष्यते। अस्य कार्यक्रमस्य शुभारम्भः नैनीतालक्षेत्रस्य महानिरीक्षिकया श्रीमती निवेदिताकुकरेत्याः करकमलैः भविष्यति।
महिलाप्रकोष्ठस्य जनपदाध्यक्षा श्रीमती कुसुमदिगारी पत्रकारसम्मेलने अवदत् यत् अस्य आयोजनस्य मुख्योद्देश्यः कुमाऊँनीसंस्कृतेः लोकपरम्पराणां पारम्परिकव्यञ्जनानां च महिलानां माध्यमेन जनजनं प्रति प्रसारणम् तथा हरेलापर्वस्य माध्यमेन पर्यावरणसंरक्षणस्य वृक्षारोपणस्य च प्रति जनजागरूकतायाः अभिवृद्धिः इति। सा अवदत् यत् एषः कार्यक्रमः महिलानां प्रतिभायै मञ्चं प्रददाति, उत्तराखण्डस्य समृद्धां सांस्कृतिकविरासतां नूतनपीढीं प्रति प्रापयितुमपि सार्थकः प्रयासः अस्ति।
तया समस्ताभ्यः महिलाभ्यः जनपदवासिभ्यश्च अस्मिन् सांस्कृतिककार्यक्रमे उत्साहपूर्वकं सहभागितां कृत्वा कार्यक्रमस्य सफलतायै सहयोगः करणीयः इति आग्रहः कृतः।
पत्रकारसम्मेलने महिलाप्रकोष्ठस्य जनपदाध्यक्षा कुसुमदिगारी, जनपदमहामन्त्री ऊर्वशीबोरा, कोषाध्यक्षा विनीताशर्मा, वरिष्ठोपाध्यक्षा ज्योतिमेहता, कञ्चनकनवाल, नीतामेहरा, जनपदसंरक्षकः इन्द्रकुमारभटियानी, प्रान्तीयोद्योगव्यापारप्रतिनिधिमण्डलस्य जनपदाध्यक्षः विपिनगुप्तः, युवा जनपदाध्यक्षः प्रदीपसब्बरवालः, जनपदमहामन्त्री हर्षवर्द्धनपाण्डेयः तथा महिलाप्रकोष्ठस्य जनपदमाध्यमप्रभारी नीरूभल्ला इत्यादयः अन्ये पदाधिकारीणश्च उपस्थिताः आसन्।
Hindusthan Samachar / Dheeraj Maithani