प्रत्येकं व्यक्तिः क्षमतायाः अनुसारं धर्मसमाजयोः सेवा करणीया : विष्णुः
हरिद्वारम्, 06 अगस्तमासः (हि.स.)। श्रावणमासस्य पावनावसरे श्रीगुरुसेवकनिवास-उछाली-आश्रमे आयोजितं कांवडसेवाशिविरम् अष्टमेऽपि दिवसे पूर्णोत्साहेन श्रद्धया सेवाभावेन च निरन्तरं प्रवर्तमानम् अस्ति। आश्रमस्य परमाध्यक्षस्य महन्तविष्णुदासमहाराजस्य मार्गद
शिविर में भांेजन ग्रहण करते कांवड़िए


हरिद्वारम्, 06 अगस्तमासः (हि.स.)।

श्रावणमासस्य पावनावसरे श्रीगुरुसेवकनिवास-उछाली-आश्रमे आयोजितं कांवडसेवाशिविरम् अष्टमेऽपि दिवसे पूर्णोत्साहेन श्रद्धया सेवाभावेन च निरन्तरं प्रवर्तमानम् अस्ति। आश्रमस्य परमाध्यक्षस्य महन्तविष्णुदासमहाराजस्य मार्गदर्शने शिवभक्तानां कांवडयात्रिकाणां निःस्वार्थभावेन सेवा क्रियते। बहुसंख्यकाः स्वयंसेवकाः अहोरात्रं सेवाकार्येषु निरताः सन्ति।

शिविरे कांवडयात्रिकाणां कृते भोजनस्य, शुद्धपेयजलस्य, चायपेयस्य, अल्पाहारस्य तथा अन्यासाम् आवश्यकसुविधानां समुचिता व्यवस्था कृता अस्ति। दूरस्थप्रदेशेभ्यः आगच्छद्भ्यः सहस्रशः शिवभक्तेभ्यः सेवाशिविरे निःशुल्कभोजनम् अन्याश्च सुविधाः प्रदीयन्ते। अस्मिन् अवसरे महन्तविष्णुदासमहाराजः अवदत् यत् कांवडयात्रिकाणां सेवा एव भगवानः शिवस्य सत्या आराधना अस्ति। सः अवदत् यत् सेवा, समर्पणम्, मानवता च भारतीयसंस्कृतेः मूलपरिचयः अस्ति तथा प्रत्येकेन जनस्य स्वसामर्थ्यानुसारं धर्मस्य समाजस्य च सेवायां योगदानं दातव्यम्। सः सर्वान् शिवभक्तान् कांवडयात्राकाले अनुशासनस्य पालनं, यातायातनियमानाम् अनुपालनं, स्वच्छतायाः विशेषध्यानं, पर्यावरणसंरक्षणे स्वीययोगदानं च कर्तुम् आह्वानम् अकरोत्।

महन्तविष्णुदासः अवदत् यत् आश्रमस्य उद्देश्यं केवलं यात्रिकेभ्यः सुविधाप्रदानं नास्ति, अपितु तेषु सेवाभावस्य, सद्भावस्य, आध्यात्मिकचेतनायाश्च प्रसारः अपि अस्ति। सः सेवाकार्येषु निरतानां सर्वेषां स्वयंसेवकानां समर्पणस्य प्रशंसां कृत्वा अवदत् यत् तेषां सहयोगेन एव एषः सेवाभियानः सफलतया सञ्चाल्यते। सः अवदत् यत् कांवडयात्रायाः समापनपर्यन्तम् आश्रमस्य सेवाशिविरं निरन्तरं सञ्चालितं भविष्यति, येन कश्चन शिवभक्तः यात्राकाले कस्यापि प्रकारस्य असुविधायाः सामना न कुर्यात्। श्रावणमासस्य अवधौ एषः सेवाभियानः निरन्तरं प्रवर्तिष्यते।

अस्मिन् अवसरे सेवाकार्येषु महन्तप्रेमदासः, महन्तसीतारामदासः, महन्तकन्हैयादासः, राघवेन्द्रदासः, पुनीतदासः, अमनदासः, सुभाषजसवाणी, सुरेशखेड़ा, रमेशखनेजा इत्यादयः आश्रमस्य अनेके सेवादाराः सक्रियरूपेण सहयोगं कृतवन्तः।

Hindusthan Samachar / Dheeraj Maithani