नैनीताल जनपदे 8 तः 16यावत् चलिष्यति विशेषेण स्वच्छताभियानम्
नैनीतालम्, 07 अगस्तमासः (हि.स.)। उत्तराखण्डोच्चन्यायालयस्य निर्देशानुपालनेन नैनीतालजनपदे विशेषस्वच्छताभियानस्य आयोजनम् उत्तराखण्डोच्चन्यायालयस्य निर्देशानाम् अनुपालनेन नैनीतालजनपदे अगस्तमासस्य अष्टमदिनाङ्कात् षोडशदिनाङ्कपर्यन्तं विशेषस्वच्छताभिय
जिलाधिकारी ललित मोहन रयाल


नैनीतालम्, 07 अगस्तमासः (हि.स.)।

उत्तराखण्डोच्चन्यायालयस्य निर्देशानुपालनेन नैनीतालजनपदे विशेषस्वच्छताभियानस्य आयोजनम्

उत्तराखण्डोच्चन्यायालयस्य निर्देशानाम् अनुपालनेन नैनीतालजनपदे अगस्तमासस्य अष्टमदिनाङ्कात् षोडशदिनाङ्कपर्यन्तं विशेषस्वच्छताभियानं सञ्चालयिष्यते। जनपदाधिकारी ललितमोहनरयालः अभियानस्य सफलसञ्चालनार्थं नगरीयग्रामीणवनक्षेत्रेषु पृथक्पृथक् दलान् गठितवान् तथा सम्बन्धिताधिकारिभ्यः निर्धारितावधौ व्यापकस्वच्छतां सुनिश्चितीकर्तुं निर्देशान् प्रदत्तवान्।

प्राप्तसूचनानुसारम् अभियानस्य अन्तर्गतं हल्द्वानीरामनगरमार्गे, हल्द्वानीनैनीतालमार्गे, हल्द्वानीखैरणामार्गे (भीमतालमार्गे), कालाढूङ्गीनैनीतालमार्गे तथा जनपदस्य प्रमुखमोटरमार्गेषु अन्येषु सम्पर्कमार्गेषु च विशेषस्वच्छताभियानं सञ्चालयिष्यते। अभियानस्य अन्तर्गतं मार्गपार्श्वेषु प्रसृतस्य कूर्चस्य समुचितनिस्तारणं क्रियिष्यते तथा स्वच्छताकार्यस्य नियमितनिगराणी अपि विधास्यते।

जनपदाधिकारिणा अभियानस्य सञ्चालनार्थं त्रिस्तरीयदलानां गठनं कृतम्। ग्रामीणक्षेत्रेषु जनपदग्राम्यविकासाभिकरणस्य परियोजनानिदेशकः, अपरमुख्याधिकारी जनपदपञ्चायत्, जनपदपञ्चायतीराजाधिकारी तथा सर्वे खण्डविकासाधिकारिणः अभियानस्य सञ्चालनं करिष्यन्ति।

नगरीयक्षेत्रेषु हल्द्वानीनगरायुक्तः, नैनीतालनगरपालिकायाः अधिशासी अधिकारी, वरिष्ठस्वास्थ्याधिकारी तथा सर्वेषां नगरपालिकानां नगरपञ्चायतानां च अधिशासिनः अधिकारिणः स्वस्वदायित्वं निर्वहिष्यन्ति।

वनक्षेत्रेषु नैनीतालप्रभागीयवनाधिकारीसहिताः सर्वे प्रभागीयवनाधिकारिणः अभियानस्य निरीक्षणं करिष्यन्ति। जनपदाधिकारिणा निर्देशाः प्रदत्ताः यत् सर्वाणि दलानि निर्धारितावधौ स्वस्वक्षेत्रेषु अभियानं सञ्चालयित्वा तस्य विवरणं सङ्कलयन्तु, येन उत्तराखण्डोच्चन्यायालये शपथपत्रस्य माध्यमेन अनुपालनप्रतिवेदनं समर्पयितुं शक्येत।

जनपदाधिकारिणा अभियानस्य जनसहभागितया सफलतां सुनिश्चितीकर्तुं नगरनिकायानां महापौराणाम्, अध्यक्षानाम्, पार्षदानाम्, सभासदानाम्, जनपदपञ्चायताध्यक्षानाम्, खण्डप्रमुखाणाम्, जनपदपञ्चायत्सदस्यानाम्, क्षेत्रपञ्चायत्सदस्यानाम्, ग्रामप्रधानानाम् तथा अन्येषां जनप्रतिनिधीनां सहयोगः ग्राह्यः इति निर्देशाः प्रदत्ताः। सहैव शासकीयसंस्थानानां, स्वैच्छिकसङ्गठनानां, महिलामङ्गलदलानां, युवकमङ्गलदलानां, स्वसहायतासमूहानां, एनसीसी, एनएसएस इत्येतयोः सक्रियसहभागिता अपि सुनिश्चितीकर्तुं निर्देशिता।

Hindusthan Samachar / Dheeraj Maithani