Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ०७ अगस्तमासः (हि.स.)। देशे डिजिटल-स्वास्थ्य-सेवानां विस्तारस्य दिशि महत्त्वपूर्णां उपलब्धिं प्राप्य राष्ट्रिय-स्वास्थ्य-प्राधिकरणेन आयुष्मान्-भारत-डिजिटल-अभियानस्य अन्तर्गतं सञ्चालितया ‘स्कैन-एण्ड-रजिस्टर’-सेवया २५ कोटि ओपीडी-पञ्जीकरणानां संख्या अतिक्रान्ता अस्ति। २०२२ तमस्य वर्षस्य अक्टूबर-मासे प्रारब्धया अस्याः सेवया चिकित्सालयेषु ओपीडी-पञ्जीकरणस्य प्रक्रिया तीव्रा, सरला पूर्णतया च डिजिटलरूपेण कृता, येन कोटिशः रोगिभ्यः सुविधा प्राप्ता अस्ति।
‘स्कैन्-एण्ड्-रजिस्टर’-सेवायाः अन्तर्गतं रोगिणः चिकित्सालये प्रदर्शितं विशेषं क्यूआर-कोडं कस्यचित् एबीडीएम-सक्षमस्य व्यक्तिगत-स्वास्थ्य-अभिलेख-प्रयोगस्य माध्यमेन स्कैन इति कुर्वन्ति। ततः रोगिणः अनुमत्यनुसारं तस्य आभा प्रोफाइल चिकित्सालयेन सह सुरक्षितरूपेण सहभागी कृता भवति तथा कागदपत्र-प्रक्रियायाः दीर्घ-पङ्क्तौ स्थित्वा वा विना तत्कालं ओपीडी-पञ्जीकरणं भवति। अनेन चिकित्सालयेषु पञ्जीकरण-कक्षेषु जनसमूहे न्यूनता अभवत् तथा स्वास्थ्य-संस्थानानां कार्य-क्षमतायाम् अपि सुधारः अभवत्।
वर्तमानकाले एषा सेवा देशस्य ३६ राज्येषु केन्द्रशासितप्रदेशेषु च स्थितेषु ७५६ जनपदेषु ३०,८०० स्वास्थ्य-संस्थानेषु उपलब्धा अस्ति। एतेषु २४,३२३ सर्वकारीय-संस्थानानि ६,४८१ निजी-स्वास्थ्य-संस्थानानि च सन्ति। एतेषु अखिल-भारतीय-आयुर्विज्ञान-संस्थानानि, केन्द्र-सर्वकारस्य राज्य-सर्वकारस्य च चिकित्सालयाः, चिकित्सा-महाविद्यालयाः, जनपद-उपजनपद-चिकित्सालयाः, सामुदायिक-स्वास्थ्य-केन्द्राणि, ईएसआईसी-चिकित्सालयाः, रेलविभाग-चिकित्सालयाः, न्यास-चिकित्सालयाः तथा निजी-चिकित्सालयाः अपि सम्मिलिताः सन्ति।
राष्ट्रिय-स्वास्थ्य-प्राधिकरणस्य अनुसारं प्रतिदिनं प्रायः ४ लक्षं रोगिणः अस्याः डिजिटल-सुविधायाः उपयोगं कुर्वन्ति। महिलानां, वरिष्ठ-नागरिकाणां, गर्भवती-महिलानां तथा नियमितरूपेण चिकित्सालयं गच्छतां रोगिणां कृते एषा सेवा विशेषतः उपयोगी सिद्धा अस्ति, यतः अनेन पञ्जीकरणे लग्नः समयः पर्याप्तरूपेण न्यूनः अभवत्।
राज्येषु बिहार-राज्येन सर्वाधिकं ७.३० कोट्यधिकानि डिजिटल-ओपीडी-पञ्जी-करणानि कृतानि सन्ति। तदनन्तरं उत्तरप्रदेशे ४.०९ कोटि, आन्ध्रप्रदेशे ३.३८ कोटि तथा जम्मू-कश्मीरे १.३९ कोटि पञ्जीकरणानि कृतानि सन्ति। एतानि विवरणानि विभिन्नेषु राज्येषु डिजिटल-स्वास्थ्य-सेवानां द्रुतगत्या वर्धमानम् उपयोगं प्रदर्शयन्ति। सर्वकारीय-स्वास्थ्य-संस्थानेषु अखिल-भारतीय-आयुर्विज्ञान-संस्थानम्, नवदिल्ली इत्यनेन सर्वाधिकानि ५४.२९ लक्षं डिजिटल-ओपीडी-पञ्जीकरणानि कृतानि सन्ति। तदनन्तरं एम्स-भोपालम्, एम्स-भुवनेश्वरम् (२३.९३ लक्षम्), एम्स-पटना (१९.६२ लक्षम्) तथा एम्स-रायपुरं (१८.६३ लक्षम्) इति क्रमः अस्ति।
अस्याः उपलब्धेः विषये राष्ट्रीय-स्वास्थ्य-प्राधिकरणस्य मुख्य-कार्यकारी-अधिकारी डॉ. सुनील-कुमार-बर्णवालः उक्तवान् यत् २५ कोटि डिजिटल-ओपीडी-पञ्जी-करणानां संख्या एतत् दर्शयति यत् नागरिकानां स्वास्थ्य-संस्थानां च भारतस्य डिजिटल-स्वास्थ्य-व्यवस्थायां विश्वासः निरन्तरं सुदृढः भवति। तेन उक्तं यत् ओपीडी-पञ्जीकरणम् इत्यादिं सामान्य-प्रक्रियां सरलीकृत्य डिजिटल-रूपेण परिवर्त्य रोगिभ्यः उत्तमा सुविधा प्रदत्ता अस्ति, अपरतः स्वास्थ्य-संस्थानानां कार्यकुशलता अपि वर्धिता अस्ति। तस्य अनुसारम् आयुष्मान्-भारत-डिजिटल-मिशनं देशे सुरक्षितं, परस्पर-संयोजितं, नागरिककेन्द्रितं च डिजिटल-स्वास्थ्य-तन्त्रम् विकसितुं महत्त्वपूर्णां भूमिकां निर्वहति।
Hindusthan Samachar / Divya Ranjan