काङ्ग्रेस-पक्षे “द्रव्यदान-संस्कृत्या” पदानि दायित्वानि च निर्धारितानि भवन्ति - अनुराग-ठाकुरः
नवदिल्ली, ०७ अगस्तमासः (हि.स.)। भारतीय-जनता-पक्षस्य सांसदः अनुराग-ठाकुरः काङ्ग्रेस-पक्षे द्रव्यदान-संस्कृतेः” आरोपं कुर्वन् उक्तवान् यत् पक्षे पदानि दायित्वानि च एतस्याः संस्कृतेः आधारेण निर्धारितानि भवन्ति। तेन दावा कृतं यत् एकस्मिन् कथित-श्रव्य-
भाजपा सांसद अनुराग ठाकुर


नवदिल्ली, ०७ अगस्तमासः (हि.स.)। भारतीय-जनता-पक्षस्य सांसदः अनुराग-ठाकुरः काङ्ग्रेस-पक्षे द्रव्यदान-संस्कृतेः” आरोपं कुर्वन् उक्तवान् यत् पक्षे पदानि दायित्वानि च एतस्याः संस्कृतेः आधारेण निर्धारितानि भवन्ति। तेन दावा कृतं यत् एकस्मिन् कथित-श्रव्य-ध्वनि-मुद्रिते तथा साम्प्रतिकेषु राजनैतिक-विमर्शेषु काङ्ग्रेस-नेतृभिः सम्बद्धाः एतादृशाः गम्भीराः आरोपाः समक्षम् आगताः सन्ति।

अनुराग-ठाकुरः शुक्रवासरे स्वनिवासे सञ्चार-माध्यम-प्रतिनिधिभिः सह वार्तालापे उक्तवान् यत् काङ्ग्रेस-पक्षे “चढावा-संस्कृतिः” अधुना गोपनीया वार्ता न अवशिष्टा। तेन आरोपितं यत् कर्नाटके काङ्ग्रेस-सर्वकारं प्रति अपि एतादृशाः चर्चाः सन्ति यत् मन्त्रीमण्डले प्रायः ८० प्रतिशतं मन्त्रिपदानि कथितरूपेण अस्याः संस्कृतेः आधारेण निर्धारितानि सन्ति। तेन उक्तं यत् वाल्मीकि-योजनायां कथित-वित्तीय-दुरुपयोगस्य प्रकरणे अभियुक्तः तथा पूर्वं सिद्धरमैया-मन्त्रिमण्डलात् त्यागपत्रं दत्तवान् विधायकः नागेन्द्रः पुनः मन्त्री कृतः इत्यस्मिन् विषये अपि प्रश्नाः उत्थाप्यन्ते, येन सम्पूर्णायाः व्यवस्थायाः विषये गम्भीराः प्रश्नाः उत्पद्यन्ते।

भाजपा-सांसदेन उक्तं यत् एते सर्वे आरोपाः काङ्ग्रेसस्य शीर्ष-नेतृत्वस्य कार्यप्रणाल्यां गम्भीरान् प्रश्नान् उत्थापयन्ति। तेन उक्तं यत् राहुल-गान्धीना सह काङ्ग्रेसस्य वरिष्ठैः नेतृभिः एतेषाम् आरोपाणाम् उत्तरं दातव्यम् तथा पारदर्शितया सत्यं जनसमक्षम् आनेतव्यम्।

Hindusthan Samachar / Divya Ranjan