राष्ट्रीय-हस्ततन्तु-दिवसः - मुख्यमन्त्रिणा तन्तुवायाः असमस्य सांस्कृतिक-धरोहरस्य आधाराः इति कथिताः
गुवाहाटी, ०७ अगस्तमासः (हि.स.)। राष्ट्रिय-हस्ततन्तु-दिवसस्य अवसरे असमस्य मुख्यमन्त्रिणा डॉ. हिमन्त-बिस्व-सर्मणा राज्यस्य हस्ततन्तु-तन्तुवायेभ्यः शुभकामनाः प्रदत्ताः। तेन तन्तुवायाः भारतस्य समृद्ध-सांस्कृतिक-धरोहरस्य प्रतीकरूपेण वर्णिताः। तेन उक्तं
मुख्यमंत्री डॉ हिमंत बिस्व सरमा द्वारा साझा तस्वीर।


गुवाहाटी, ०७ अगस्तमासः (हि.स.)। राष्ट्रिय-हस्ततन्तु-दिवसस्य अवसरे असमस्य मुख्यमन्त्रिणा डॉ. हिमन्त-बिस्व-सर्मणा राज्यस्य हस्ततन्तु-तन्तुवायेभ्यः शुभकामनाः प्रदत्ताः। तेन तन्तुवायाः भारतस्य समृद्ध-सांस्कृतिक-धरोहरस्य प्रतीकरूपेण वर्णिताः। तेन उक्तं यत् विशेषतः ग्रामीण-क्षेत्रेषु हस्ततन्तु-उद्योगः आजीविकायाः महत्त्वपूर्णं स्रोतः अस्ति।

मुख्यमन्त्रिणा शुक्रवासरे सामाजिक-माध्यमे प्रकाशिते स्वकीय-सन्देशे उक्तं यत् तन्तुवायानां कल्याणाय तान् आर्थिकरूपेण स्वावलम्बिनः कर्तुं च राज्य-सर्वकारेण बह्व्यः महत्त्वाकांक्षिण्यः योजनाः प्रारब्धाः सन्ति। एतै: प्रयासैः हस्ततन्तु-क्षेत्रं सुदृढं जातम् तथा अस्मिन् क्षेत्रे सम्बद्धानां जनानां जीवनस्तरे अपि सुधारः भवति।

तेन असमस्य इतिहासस्य उल्लेखं कुर्वन् उक्तं यत् अहोम-शासनकाले अपि कुशल-शिल्पिनां समृद्धा परम्परा आसीत्, ये रात्रौ एव सूत्रं कृत्वा उत्कृष्ट-वस्त्राणां निर्माणाय प्रसिद्धाः आसन्।

डॉ. सरमाणा उक्तं यत् हस्ततन्तु-क्षेत्रस्य विकासः महिलानाम् आर्थिक-सशक्ती-करणस्य सह राज्यस्य सामाजिक-आर्थिक-विकासे अपि महत्त्वपूर्णं योगदानं ददाति। राष्ट्रीय-हस्ततन्तु-दिवसस्य अवसरे तेन असमस्य समृद्धां हस्ततन्तु-परम्परां जीवन्तं धारयन्तः सर्वेषां तन्तुवायानां सृजनशीलतायै समर्पणाय च गौरवं प्रकटितम्।

Hindusthan Samachar / Divya Ranjan