नवम-अगस्त-दिनाङ्कतः आरभ्यते जलप्लावन-क्षति-सर्वेक्षणम्, प्रभावित-परिवारैः सह सर्वकारः प्रत्येकस्मिन् पदे स्थास्यति - मुख्यमन्त्री सरमा
गुवाहाटी, ०७ अगस्तमासः (हि.स.)। असमस्य मुख्यमन्त्री डॉ. हिमन्त-बिस्व-सर्मणा शुक्रवासरे उक्तं यत् जलप्लावनेन प्रभावितस्य प्रत्येकं परिवारेण सह राज्य-सर्वकारः अस्मिन् कठिनसमये पूर्णदृढतया स्थितः अस्ति तथा अग्रे अपि सर्वसम्भव-सहायतां प्रदास्यति। मुख्
The Illustration shared by Assam CM Dr Himanta Biswa Sarma.


गुवाहाटी, ०७ अगस्तमासः (हि.स.)। असमस्य मुख्यमन्त्री डॉ. हिमन्त-बिस्व-सर्मणा शुक्रवासरे उक्तं यत् जलप्लावनेन प्रभावितस्य प्रत्येकं परिवारेण सह राज्य-सर्वकारः अस्मिन् कठिनसमये पूर्णदृढतया स्थितः अस्ति तथा अग्रे अपि सर्वसम्भव-सहायतां प्रदास्यति।

मुख्यमन्त्रिणा सामाजिक-माध्यमे प्रकाशिते सन्देशे उक्तं यत् सर्वकारस्य सहायता केवलं तात्कालिक-सहायता-कार्यं यावत् सीमिता न भविष्यति, अपितु क्षतिग्रस्त-गृहाणि, शैक्षणिक-संस्थानानि, आङ्गनवाडी-केन्द्राणि, नामघराणि, आजीविकां ऋण-सम्बन्धित-सहायता इत्येतै: च सह सर्वेषु क्षेत्रेषु प्रदास्यते।

तेन सूचितं यत् जलप्लावनेन उत्पन्नस्य क्षतेः सर्वेक्षणं नवम-अगस्त-दिनाङ्कतः आरप्स्यते। सर्वेक्षणस्य आधारेण प्रभावित-परिवारेभ्यः सहायता उपलब्धा करिष्यते, येन ते यथाशीघ्रं सामान्य-जीवनं प्रति प्रत्यागन्तुं शक्नुयुः।

मुख्यमन्त्रिणा आश्वासनं दत्तं यत् राज्य-सर्वकारः प्रत्येकं प्रभावित-परिवारस्य पुनर्वासाय तस्य जीवनं पुनः सामान्य-मार्गे आनेतुं च सर्वसम्भवान् प्रयासान् निरन्तरं करिष्यति।

Hindusthan Samachar / Divya Ranjan