राष्ट्रिये हथकरघा दिवसे भाजपादलम् असम प्रदेश महिला मोर्चाद्वारा कृतः हस्तकरघासंपदः सम्मानः
गुवाहाटी, 07 अगस्तमासः (हि.स.)। भाजपादलस्य असमप्रदेशमहिलामोर्चाद्वारा राष्ट्रियहस्तकरघादिवसस्य अवसरे गुरुवासरे गुवाहाटीनगरस्य वशिष्ठक्षेत्रस्थिते अटलबिहारीवाजपेयीभवने विविधकार्यक्रमाणाम् आयोजनम् अभवत्। अस्मिन् अवसरे असमप्रदेशस्य समृद्धा हस्तकरघाप
Assam BJP Headquarters


गुवाहाटी, 07 अगस्तमासः (हि.स.)।

भाजपादलस्य असमप्रदेशमहिलामोर्चाद्वारा राष्ट्रियहस्तकरघादिवसस्य अवसरे गुरुवासरे गुवाहाटीनगरस्य वशिष्ठक्षेत्रस्थिते अटलबिहारीवाजपेयीभवने विविधकार्यक्रमाणाम् आयोजनम् अभवत्। अस्मिन् अवसरे असमप्रदेशस्य समृद्धा हस्तकरघापरम्परा प्रदर्शयितुं दिवसभरं हस्तकरघाप्रदर्शनी आयोजिता तथा च अस्मिन् क्षेत्रे उल्लेखनीययोगदानं कृतवत्यः चतस्रः महिला उद्यमिन्यः सम्मानिताः।

पूर्वसांसदा वरिष्ठा भाजपानेत्री क्वीन ओझा प्रदर्शनीम् उद्घाटितवती। अस्यां प्रदर्शिन्यां स्थानीयैः वायिकैः शिल्पिभिश्च निर्मितानां पारम्परिकहस्तकरघोत्पादनानां पञ्चदश स्तम्भाः स्थापिताः। कार्यक्रमे डॉ. अलकानन्दा दास, मधु जैन, भावना प्रिया कलिता तथा कल्याणी तामुली इत्येताः हस्तकरघवस्त्रोद्योगक्षेत्रे तासां विशिष्टयोगदानस्य कृते सम्मानिताः। एषः सम्मानः असमसर्वकारस्य मन्त्रिणी नीलिमा देवी इत्यस्याः उपस्थितौ प्रदत्तः।

सभां सम्बोधयन्ती नीलिमा देवी अवदत् यत् हस्तकरघोद्योगः केवलम् आर्थिकक्रिया नास्ति, अपितु असमप्रदेशस्य संस्कृतेः, विरासतस्य, परिचयस्य च अभिन्नः अंशः अस्ति। तया उक्तं यत् मुख्यमन्त्रिणः डॉ. हिमन्तबिस्वसर्मणः नेतृत्वे राज्यसर्वकारः वायिकानां हितसंरक्षणाय, पारम्परिकवस्त्रविरासतस्य संरक्षणाय, हस्तकरघोत्पादनानां कृते उत्तमविपण्युपलब्धये च निरन्तरं कार्यं करोति। तया अपि उक्तं यत् गामोसा तथा मेखेला चादर इति असमप्रदेशस्य पारम्परिकवस्त्रे राष्ट्रियान्तरराष्ट्रीयस्तरे विशेषपरिचयं प्राप्तवती।

भाजपादलस्य असमप्रदेशमहिलामोर्चायाः माध्यमविभागस्य सहसंयोजिका आशा डेका अवदत् यत् राष्ट्रियहस्तकरघादिवसः भारतस्य समृद्धबुननपरम्परायाः तथा लक्षशः वायिकानां सम्मानस्य अवसरः अस्ति। तया सूचितं यत् देशे पञ्चत्रिंशल्लक्षद्विलक्षाधिकाः (३५.२ लक्षाधिकाः) वायिकाः, शिल्पिनः, श्रमिकाश्च अस्मिन् क्षेत्रे संलग्नाः सन्ति, येषु द्विसप्ततिप्रतिशताधिकाः महिलाः सन्ति। तया उक्तं यत् प्रधानमन्त्री नरेन्द्रमोदिनः नेतृत्वे इण्डिया हैण्डलूम ब्राण्ड्, हैण्डलूम मार्क्, जीआई टैगिङ्ग्, रूपरचनात्मकाधारसंरचना तथा डिजिटलमञ्चादीनां विविधपहलानां माध्यमेन हस्तकरघाक्षेत्रं नूतनपरिचयं वैश्विकविपण्यां च प्रवेशं प्राप्तवत्।

अस्मिन् कार्यक्रमे पूर्वसांसदा क्वीन ओझा, भाजपादलस्य प्रदेशोपाध्यक्षः डॉ. अमिय कुमार भुइयां, मनोज बरुवा, रत्ना सिंह, गुवाहाटीनगरस्य महापौरः मृगेन सरनिया, उपमहापौरा स्मिता रॉय, भाजपादलस्य मुख्यप्रवक्ता किशोर उपाध्याय, प्रवक्ता रंजीव कुमार शर्मा तथा अन्ये बहवः वरिष्ठनेतारः कार्यकर्तारश्च उपस्थिताः आसन्।

----------

Hindusthan Samachar / Dheeraj Maithani