Enter your Email Address to subscribe to our newsletters

भुवनेश्वरम्, ०७ अगस्तमासः (हि.स.)। केन्द्रीय-शिक्षामन्त्री प्रह्लाद-जोशी ब्रिक्स-सहयोगे भारतस्य ‘जनकेन्द्रित-मानवताप्रथम’-दृष्टिकोणं प्रति प्रतिबद्धतां पुनः प्रतिपाद्य उक्तवान् यत् भविष्यस्य वंशानाम् आकाङ्क्षानाम् अनुरूपं शिक्षा-व्यवस्थायाः निरन्तर-विकासाय नवाचारः अनिवार्यम् अस्ति।
जोशी शुक्रवासरे ओडिशायाः राजधानी-भुवनेश्वरे आयोजितायां त्रयोदशस्यां ब्रिक्स-शिक्षामन्त्रिणां सभायाः अध्यक्षतां कृतवान्। सभा त्रयोदशस्याः ब्रिक्स-शिक्षामन्त्रिणां घोषणायाः स्वीकरणेन सम्पन्ना। सभां सम्बोधयन् जोशी उक्तवान् यत् भारतं वर्ष २०२६ तमस्य स्वकीयस्य ब्रिक्स-अध्यक्षतायाः ‘सुदृढतायै, नवाचाराय, सहयोगाय, स्थायित्वाय च निर्माणम्’ इति विषयानुरूपं सर्वैः सदस्य-देशैः सह मिलित्वा कार्यं कर्तुं प्रतिबद्धम् अस्ति। तेन उक्तं यत् शिक्षा-व्यवस्थया युवानः उद्भवदवसराणां कृते सज्जीकर्तव्याः, किन्तु सा मानवीय-मूल्यैः सह सम्बद्धा अपि भवितव्या। नीतिनिर्माणस्य अन्ताराष्ट्रिय-सहयोगस्य च केन्द्रे विद्यार्थिनः, शिक्षकाः, शोधकर्तारः युवानश्च स्थापनीयाः।
तेन उक्तं यत् शिक्षा समावेशी-विकासस्य सहभाग-समृद्धेः च आधारशिला अस्ति तथा सभायां स्वीकृता घोषणा ब्रिक्स-देशानां पञ्चसु प्राथमिकता-क्षेत्रेषु सहयोगं सुदृढीकर्तुं सामूहिक-प्रतिबद्धतां प्रदर्शयति। तेन पारम्परिकानां स्वदेशीय-ज्ञान-व्यवस्थानां संरक्षणस्य संवर्धनस्य च विषये अपि बलं प्रदत्तम् तथा उक्तं यत् नवाचारः परम्परा च परस्परं पूरकौ स्तः।
जोशी उक्तवान् यत् ब्रिक्स-देशानां समृद्धाः सभ्यतागत-परम्पराः पारम्परिक-ज्ञानस्य संरक्षणाय, तस्य वैज्ञानिक-अध्ययनाय भावी-वंशेभ्यः तस्य हस्तान्तरणाय च महत्त्वपूर्णम् अवसरं प्रददति। तेन ओडिशायाः प्राचीन-शिक्षा-परम्परायाः तथा भारतस्य ‘अतिथि-देवो-भवः’, ‘वसुधैव-कुटुम्बकम्’ इत्यादीनां मूल्यानां च उल्लेखः कृतः।
सभायां ब्राजील-रूस-चीन-दक्षिण-अफ्रीका-इण्डोनेशिया-ईरान-इथियोपिया-संयुक्त-अरब-अमीरात् इत्यादीनां ब्रिक्स-सदस्य-देशानां शिक्षामन्त्रिणः, वरिष्ठ-अधिकारीणः प्रतिनिधयश्च भागं गृहीतवन्तः।
सभायां स्वीकृते घोषणापत्रे शिक्षां ब्रिक्स-सहयोगस्य प्रमुखं स्तम्भं निरूप्य भारतस्य अध्यक्षतायां निर्धारितेषु पञ्चसु प्राथमिकता-क्षेत्रेषु संयुक्त-कार्ययोजना निर्धारिताः। तेषु प्रारम्भिक-बाल्यावस्था-परिचर्यायाः शिक्षायाश्च तथा आधारभूत-साक्षरतायाः सङ्ख्याज्ञानस्य च सुदृढीकरणम्, कौशल-विकासे प्राविधिक-व्यावसायिक-शिक्षायां च सहयोगस्य वृद्धिः, अनुसन्धान-नवाचार-स्टार्टअप्-परितन्त्रस्य प्रोत्साहनम्, शैक्षणिक-योग्यतानां पारस्परिक-मान्यतायाः प्रगमनम् तथा शैक्षणिक-नेतृत्वस्य संस्थागत-क्षमता-निर्माणस्य च सुदृढीकरणम् अन्तर्भवन्ति।
घोषणायां शिक्षायां कृत्रिम-बुद्धिमत्तायाः सुरक्षितस्य नैतिकस्य मानवकेन्द्रितस्य च उपयोगस्य, संयुक्त-अनुसन्धानस्य, नवाचार-आधारित-उद्यमितायाः, उच्च-शिक्षण-संस्थानां मध्ये सहयोगस्य तथा छात्रवृत्ति-कार्यक्रमाणां प्रोत्साहनस्य विषये अपि सहमतिः व्यक्ता। तदनन्तरं पारम्परिक-स्वदेशीय-ज्ञान-व्यवस्थानां विषये शैक्षणिक-सहयोगं सुदृढीकर्तुं भारतस्य प्रयत्नस्य स्वागतं कृतम्।
उल्लेखनीयं यत् भारतस्य ब्रिक्स-अध्यक्षतायाः अन्तर्गतं शिक्षा-मन्त्रालयेन अगस्त-मासस्य ०५ दिनाङ्के भुवनेश्वरे तृतीया ब्रिक्स-वरिष्ठाधिकारिणां सभापि आयोजिता आसीत्। भारतं स्वकीयायाः अध्यक्षतायाः अवधौ विभिन्न-क्षेत्राणां मन्त्रिस्तरीय-सभानां आयोजनं करिष्यति, यासां समापनं सितम्बर-मासस्य १२–१३ दिनाङ्कयोः नवदिल्ली इत्यत्र प्रस्तावितेन अष्टादशेन ब्रिक्स-शिखर-सम्मेलनेन भविष्यति।
Hindusthan Samachar / Divya Ranjan