Enter your Email Address to subscribe to our newsletters

भोपालम्, 07 अगस्तमासः (हि.स.)।
मध्यप्रदेशस्य राजधानी भोपालनगरे केन्द्रीयसंस्कृतिमन्त्रालयस्य तत्त्वावधाने आयोजितस्य चतुर्दिवसीयस्य ब्रिक्ससंस्कृतिसम्मेलनम्–२०२६ इत्यस्य अद्य तृतीयः दिवसः अस्ति। अद्य ब्रिक्सदेशानां संस्कृतिमन्त्रिणः भोपालनगरम् आगमिष्यन्ति। सायंकाले च ‘ब्रिक्स सांस्कृतिकमहोत्सवः–२०२६’ आयोजयिष्यते।
जनसम्पर्कविभागस्य अनुसारं भोपालस्थिते रविन्द्रभवने आयोजितः ‘ब्रिक्स सांस्कृतिकमहोत्सवः–२०२६’ भारतस्य तथा ब्रिक्ससदस्यदेशानां प्रख्यातसङ्गीतकारान् कलाकारांश्च एकत्र आनयन् विशेषरूपेण निर्मितः सहयोगात्मकः सांगीतिककार्यक्रमः अस्ति। कार्यक्रमस्य आरम्भः “सर्वे भवन्तु सुखिनः” इत्यस्य आह्वानेन भविष्यति। ततः परं हिन्दुस्तानीकर्नाटकशास्त्रीयसङ्गीतपरम्परयोः उत्सवं प्रकाशयन् “कलर्स् ऑफ् इण्डियन म्यूजिक्” इति प्रस्तुतिर्भविष्यति।
अस्य कार्यक्रमस्य प्रमुखमाकर्षणं “ब्रिक्स पीस सॉन्ग् – पीस् इज् द लैङ्ग्वेज् ऑफ् द लैण्ड्” इति भविष्यति, यत् सहभागिभिः ब्रिक्सदेशैः सह संगीतमयीं यात्रां प्रस्तुतं करिष्यति। अस्मिन् बेलारूस, ब्राजील, चीन, मिस्र, इथियोपिया, इण्डोनेशिया, ईरान, रूस, सऊदीअरब, दक्षिणआफ्रिका तथा संयुक्तअरबअमीरातदेशानां सांगीतिकपरम्पराणां समावेशः भविष्यति। कार्यक्रमे “पीस् टू ऑल्, हार्मनी टू ऑल्” तथा “क्रेस्केण्डो ऑफ् यूनिटी” इति भव्यवाद्यवृन्दप्रस्तुतयः अपि भविष्यन्ति।
तदनन्तरं संस्कृतिविभागस्य व्यवस्थायां ‘ब्रिक्स सांस्कृतिकमहोत्सवः–२०२६’ इत्यस्य अन्तिमा भव्यप्रस्तुतिरूपेण “अमृतस्य मध्यप्रदेशः – एका अलौकिका सांस्कृतिकमहायात्रा” इति नृत्यनाट्यस्य मंचनं भविष्यति। विख्यातनृत्यनिर्देशिका मैत्रेयीपहाडी इत्यस्याः निर्देशनाधीने शताधिकपञ्चविंशतिः सिद्धहस्तकलाकारैः प्रस्तुतेयं नृत्यरचना ॐकारस्य अनादिध्वन्या सह मध्यप्रदेशस्य जीवन्तात्मानं सजीवं करिष्यति। एषा महायात्रा भीमबेटका, साञ्ची, खजुराहो इत्येषां यूनेस्कोविश्वधरोहरस्थलानां वैभवात् आरभ्य चित्रकूटस्य ‘रामपथगमनम्’ उज्जयिन्याः सान्दीपन्याश्रमस्य ‘कृष्णलीला’ पर्यन्तं पवित्रयात्रां दर्शयिष्यति।
अस्यां ग्वालियर, ओरछा, माण्डू इत्येषां ऐतिहासिकदुर्गाणां गाथा, माहेश्वरीचन्देरीवस्त्रशिल्पयोः लालित्यं, बैगा, मटकी, बधाई इत्यादीनां समृद्धजनजातीयलोकनृत्यानामुल्लासश्च समाहितः अस्ति। भोपालस्य सरोवरेभ्यः आरभ्य बाबा महाकालस्य नगरी उज्जयिनी, ओङ्कारेश्वरस्य आध्यात्मिकवैभवं, माता नर्मदायाः महाआरार्तिकं च समाविशन्ती एषा प्रस्तुतिर्निमन्त्रितातिथीन् ‘सिंहस्थकुम्भः–२०२८’ इत्यस्य भव्याध्यात्मिकनिमन्त्रणमपि प्रदास्यति। महोत्सवस्य समापनं मध्यप्रदेशसर्वकारेण आयोजितेन रात्रिभोजनेन भविष्यति।
श्वः मन्त्रिणां बैठकम् आयोजयिष्यते। शनिवासरे भारतस्य अध्यक्षतायां तृतीया ब्रिक्ससंस्कृतिमन्त्रिणां बैठकम् आयोजयिष्यते। मन्त्रिणः ब्रिक्ससदस्यदेशानां भागीदारदेशानां च मध्ये सांस्कृतिकधरोहरस्य, संग्रहालयानाम्, सृजनात्मकार्थव्यवस्थायाः, सांस्कृतिकविनिमयस्य, क्षमतानिर्माणस्य, जनसम्पर्कविस्तारस्य च क्षेत्रेषु सहयोगस्य सुदृढीकरणविषये विचारविमर्शं करिष्यन्ति। एषा बैठक् ‘ब्रिक्ससंस्कृतिमन्त्रिणां घोषणा’ इत्यस्य स्वीकृत्या समाप्स्यते, या ब्रिक्सव्यवस्थायाः अन्तर्गतं उन्नतसांस्कृतिकसहयोगाय साझा-दृष्टिकोणं भविष्यस्य मार्गचित्रं च निर्धारयिष्यति।
यूनेस्कोविश्वधरोहरस्थलं ‘साञ्ची’ इत्यस्य सांस्कृतिकयात्रा मन्त्रिस्तरीयबैठकानन्तरं प्रतिनिधिमण्डलं भारतस्य समृद्धबौद्धधरोहरस्य स्थापत्यकलायाश्च अवलोकनार्थं साञ्चीनगरं प्रति प्रस्थास्यति। प्रतिनिधयः ‘बुद्धजम्बूदीपम्’ इत्यस्य भ्रमणं करिष्यन्ति, ततः परं विश्वविख्यातस्य साञ्चीस्तूपस्य विशेषमार्गदर्शितभ्रमणमपि करिष्यन्ति। यात्रायाः समये प्रतिनिधयः चेतियागिरिमन्दिरे दर्शनं कृत्वा योगध्यानसत्रे अपि सहभागिनः भविष्यन्ति। सायंकाले बौद्धेतिहासकलायाः आधारेण आकर्षकं त्रिविमीयप्रक्षेपणमानचित्रप्रदर्शनं तथा प्रकाशध्वनिप्रदर्शनं आयोजयिष्यते।
---------------
Hindusthan Samachar / Dheeraj Maithani