Enter your Email Address to subscribe to our newsletters

रायपुरम्, 07 अगस्तमासः (हि.स.)।
मुख्यमन्त्री विष्णुदेवसायः शुक्रवासरे महतारीवन्दनयोजनायाः त्रिंशत्तमां किस्तं विमोक्ष्यति। अस्मिन् अवसरे योजनायाः पात्राभ्यः हितग्राहिणीभ्यः महिलाभ्यः तासां बैङ्कलेखेषु धनराशिः स्थानान्तरिता भविष्यति।
आधिकारिककार्यक्रमानुसारं मुख्यमन्त्री विष्णुदेवसायः मध्याह्ने १:३० वादने मुख्यमन्त्रिनिवासकार्यालयात् आयोजिते कार्यक्रमे महतारीवन्दनयोजनायाः त्रिंशत्तमां किस्तं विमोक्ष्यति।
उल्लेखनीयं यत् महतारीवन्दनयोजनायाः अन्तर्गतं प्रदेशस्य पात्राभ्यः विवाहिताभ्यः महिलाभ्यः आर्थिकसशक्तीकरणाय तथा परिवारस्य आर्थिकस्थितेः सुदृढीकरणाय प्रतिमासं वित्तीयसहायता प्रदीयते। राज्यसर्वकारेण प्रतिमासं हितग्राहिणीनां बैङ्कलेखेषु प्रत्यक्षलाभहस्तान्तरणप्रणाल्या (डीबीटी) धनराशिः स्थानान्तर्यते। अद्य विमोच्यमानया त्रिंशत्तमया किस्त्या सह योजनायाः अन्तर्गतं अपरमेकं मासिकभुगतानं लाभार्थिनां लेखेषु प्राप्स्यति।
Hindusthan Samachar / Dheeraj Maithani