मुख्यमंत्री डॉ. यादवो डॉ. एम.एस. स्वामीनाथन्, बाबूलाल जैनो गुरुदेव रवींद्रनाथ टैगोरश्च इत्येते प्रणताः
भोपालम्, 07 अगस्तमासः (हि.स.)।मध्यप्रदेशस्य मुख्यमन्त्री डा. मोहनयादवेन हरितक्रान्तेः शिल्पकारः डा. एम. एस. स्वामीनाथनः, वरिष्ठनेता पूर्वमन्त्री बाबूलालजैनः तथा राष्ट्रगानस्य रचयिता गुरुदेवः रवीन्द्रनाथठाकुरः तेषां जन्मतिथौ पुण्यतिथौ च श्रद्धाञ्जलि
मुख्यमंत्री डॉ. मोहन यादव (फाइल फोटो)


भोपालम्, 07 अगस्तमासः (हि.स.)।मध्यप्रदेशस्य मुख्यमन्त्री डा. मोहनयादवेन हरितक्रान्तेः शिल्पकारः डा. एम. एस. स्वामीनाथनः, वरिष्ठनेता पूर्वमन्त्री बाबूलालजैनः तथा राष्ट्रगानस्य रचयिता गुरुदेवः रवीन्द्रनाथठाकुरः तेषां जन्मतिथौ पुण्यतिथौ च श्रद्धाञ्जलिः समर्पिता।

मुख्यमन्त्री डा. यादवः शुक्रवासरे सामाजिकमाध्यमेन एक्स इत्यस्य माध्यमेन उक्तवान् यत् हरितक्रान्तेः शिल्पकारं भारतरत्नसम्मानितं डा. एम. एस. स्वामीनाथनं जन्मतिथ्यां सादरं नमामि। तेन उक्तं यत् कृष्यनुसन्धानस्य नवाचारस्य दूरदर्शितायाः कृषककल्याणस्य च प्रति डा. स्वामीनाथनस्य बहुमूल्यं योगदानं भारतस्य खाद्यात्मनिर्भरत्वस्य सुदृढाधारः सिद्धम् अभवत्।

बाबूलालजैनस्य पुण्यतिथौ नमनं कुर्वन् मुख्यमन्त्री डा. यादवः उक्तवान् यत् तस्मै विनम्रां श्रद्धाञ्जलिं समर्पयामि। जैनस्य सरलता, सङ्गठनस्य प्रति समर्पणभावः जनसेवायां च तस्य योगदानं सदा स्मरणीयं भविष्यति।

मुख्यमन्त्री गुरुदेवं रवीन्द्रनाथठाकुरं स्मरन् उक्तवान् यत् राष्ट्रगानस्य रचयितारं सुप्रसिद्धं साहित्यकारं महान् शिक्षाविदं नोबेलपुरस्कारेण सम्मानितं गुरुदेवं रवीन्द्रनाथठाकुरं पुण्यतिथौ विनम्रां श्रद्धाञ्जलिं समर्पयामि। श्रद्धेयेन ठाकुरेण स्वसाहित्येन शिक्षादर्शनेन मानवीयमूल्यैश्च भारतस्य सांस्कृतिकचेतनायै नूतना दिशा प्रदत्ता। ज्ञानस्य सृजनस्य संवेदनायाः राष्ट्रप्रेम्णश्च गुरुदेवस्य रवीन्द्रनाथठाकुरस्य सन्देशः अद्यापि विकसितस्य समरसस्य आत्मनिर्भरस्य भारतस्य निर्माणयात्रां निरन्तरम् आलोकयति।

---------------

Hindusthan Samachar / Dheeraj Maithani