Enter your Email Address to subscribe to our newsletters




मुख्यमन्त्री डा. यादवेन शासकीय आदिवासी महिला औद्योगिक प्रशिक्षणसंस्थाने प्रशिक्षार्थिनीभिः सह संवादः कृतः
प्रशिक्षणस्य योजनानां च विषये सूचना गृहीता
भोपालः, ०७ अगस्तमासः (हिस.)।
मध्यप्रदेशस्य मुख्यमन्त्री डा. मोहनयादवः उक्तवान् यत् तकनीकीशिक्षा कौशलविकासश्च राष्ट्रस्य युवाशक्तेः आत्मनिर्भरत्वस्य सर्वाधिकं सशक्तं साधनम् अस्ति। सः प्रशिक्षार्थिनीनां छात्राणाम् उत्साहवर्धनं कुर्वन् उक्तवान् यत् ताः स्वस्य आत्मविश्वासं सदा धारयेयुः, तकनीकीदक्षतया सह स्वमूलैः कृषिकार्येण च सम्बद्धाः तिष्ठेयुः।
मुख्यमन्त्री शुक्रवासरे छिन्दवाडाजिल्लास्थितस्य शासकीय आदिवासी महिला औद्योगिक प्रशिक्षणसंस्थानस्य भ्रमणावसरे प्रशिक्षार्थिनीछात्राभिः सह संवादं कुर्वन् आसीत्। अस्मिन् अवसरे प्रदेशस्य लोकनिर्माणमन्त्री जिल्लायाः प्रभारीमन्त्री च राकेशसिंहः, सांसदः विवेकबण्टीसाहू, मुख्यसचिवः अशोकबर्णवालः, आयुक्तः धनञ्जयसिंहः तथा अन्ये जनप्रतिनिधयः उपस्थिताः आसन्।
मुख्यमन्त्री डा. यादवः संस्थानस्य विविधप्रयोगशालानाम् अवलोकनं कृत्वा प्रशिक्षार्थिनीछात्राभिः सह तासां प्रशिक्षणं भावियोजनाः शासनस्य विविधयोजनाभ्यः प्राप्यमाणलाभाः च इत्येतत्सम्बन्धे विस्तरेण चर्चां कृतवान्। मैकेनिकलप्रयोगशालायां तेन सीआरडीआई चतुःचक्र डीजलयन्त्रस्य विषये सूचना गृहीता तथा लेथयन्त्रे दक्षतया कार्यं कुर्वतीनां छात्राणां विशेषरूपेण प्रशंसा कृता।
फिटरव्यवसायस्य प्रशिक्षार्थिनी सुषमा उइके मुख्यमन्त्रिणे अवदत् यत् तस्याः मातापितरौ कृषिकार्ये संलग्नौ स्तः तथा सा तकनीकीप्रशिक्षणं प्राप्य अस्मिन् क्षेत्रे स्वभविष्यं निर्मातुम् इच्छति। छात्रायाः आत्मविश्वासेन प्रभावितः मुख्यमन्त्री उक्तवान् यत् एतमेव आत्मविश्वासं सदा धारयतु। तकनीकीकौशलस्य सह कृषिकार्येणापि सम्बद्धा भवतु। मम पिता अपि सदा मां कृषिकार्ये संलग्नं भवितुम् उपादिशत्।
संवादस्य समये प्रशिक्षार्थिनी राधा उडके अवदत् यत् सा प्रशिक्षणकाले अधिगतानां तकनीकीविधीनाम् उपयोगं कृषिकार्येष्वपि करिष्यति तथा भविष्ये स्वकीयां टेक्निशियन यन्त्र हार्डवेयर कार्यशालां स्थापयितुम् इच्छति। मुख्यमन्त्री तस्याः संकल्पस्य प्रशंसां कृत्वा उज्ज्वलभविष्याय शुभकामनाः प्रदत्तवान्।
मुख्यमन्त्री प्रशिक्षार्थिनीभ्यः शासकीययोजनाभ्यः प्राप्यमाणलाभस्य विषये अपि सूचना गृहीतवान्। प्रशिक्षार्थिनी मीना करवेती आत्मविश्वासेन मुख्यमन्त्री सीखो कमाओ योजना तथा प्रधानमन्त्री विश्वकर्मा योजना इत्येतयोः विषये सूचना प्रस्तुतवती। तया उक्तं यत् पुस्तकबन्धनकार्ये, पङ्खमरम्मते, विद्युत्संयोजने तथा यन्त्रभागानां संयोजने इत्यादिषु तकनीकीकार्येषु सा दक्षता प्राप्तवती अस्ति तथा सर्वाणि कार्याणि सुरक्षामानकानां पूर्णपालनेन करोति।
प्रशिक्षार्थिनां उत्साहेन प्रतिबद्धतया च प्रभावितः मुख्यमन्त्री डा. यादवः उक्तवान् यत् तासां उत्तरदायित्वं केवलं स्वजीवनस्य उन्नयनपर्यन्तं न सीमितम् अस्ति, अपितु स्वकौशलज्ञानाभ्यां समाजस्य अन्येषां जनानां च जीवने सकारात्मकपरिवर्तनस्य आनयनमपि तासामेव उत्तरदायित्वम् अस्ति।
संस्थाने नवाचारस्य उत्कृष्टा दृष्टान्ता अपि दृष्टा। फिटरव्यवसायस्य प्रशिक्षार्थिभिः वेस्ट टू आर्ट इति अवधारणाम् आधृत्य निर्मितं मनोहरं गिटारं तथा अपशिष्टवस्तुभिः निर्मिता तोपः मुख्यमन्त्रिणे उपायनीकृता। मुख्यमन्त्री एतेषां सृजनात्मकप्रयत्नानां मुक्तकण्ठेन प्रशंसां कृत्वा उक्तवान् यत् नवाचारस्य तकनीकीकौशलस्य च एषः समन्वयः युवानां प्रतिभायाः सृजनशीलतायाश्च उत्कृष्टम् उदाहरणम् अस्ति।
अस्मिन् अवसरे संस्थानस्य प्रवेशविवरणिका अपि मुख्यमन्त्रिणे समर्पिता। मुख्यमन्त्री प्रशिक्षार्थिनीछात्राभिः सह सामूहिकछायाचित्रमपि गृहीतवान्, येन छात्राणाम् उत्साहः द्विगुणितः अभवत्। भ्रमणकाले मुख्यमन्त्री डा. यादवः संस्थानपरिसरे मलबरी शहतूत वृक्षस्य रोपणं कृत्वा पर्यावरणसंरक्षणस्य संदेशमपि प्रदत्तवान्।
---
Hindusthan Samachar / Dheeraj Maithani