इतिहासस्य पृष्ठेषु 08 अगस्त :अद्यतने एव दिने शुभारब्धं भारत छोड़ो आंदोलनम्इति
इतिहासे अगस्तमासस्य ०८ दिनाङ्कः अनेकेषां महत्त्वपूर्णानां घटनानां साक्षी अस्ति। भारतीयस्वातन्त्र्यसङ्ग्रामस्य इतिहासे अयं दिनाङ्कः विशेषमहत्त्वं वहति, यतः १९४२ तमस्य वर्षस्य अगस्तमासस्य ०८ दिनाङ्के महात्मा गान्धिना आङ्ग्लशासनस्य विरुद्धं ‘भारतत्याग
सांकेतिक।


इतिहासे अगस्तमासस्य ०८ दिनाङ्कः अनेकेषां महत्त्वपूर्णानां घटनानां साक्षी अस्ति। भारतीयस्वातन्त्र्यसङ्ग्रामस्य इतिहासे अयं दिनाङ्कः विशेषमहत्त्वं वहति, यतः १९४२ तमस्य वर्षस्य अगस्तमासस्य ०८ दिनाङ्के महात्मा गान्धिना आङ्ग्लशासनस्य विरुद्धं ‘भारतत्यागान्दोलनम्’ आहूतम्।

१९४२ तमस्य वर्षस्य अगस्तमासस्य ०८ दिनाङ्के मुम्बईनगरे (तत्कालीनबम्बई) ग्वालियाटैंकमैदाने अखिलभारतीयकाङ्ग्रेससमितेः उपवेशने महात्मा गान्धी ब्रिटिशशासनं भारतं परित्यक्तुम् आह्वयन् “करो या मरो” इति घोषवाक्यम् उद्घोषितवान्। अनेन आन्दोलननेन देशव्यापिन्याः स्वातन्त्र्यलढायाः नूतना ऊर्जा प्राप्ता, लक्षशः भारतीयाः स्वातन्त्र्यार्थं सङ्घर्षे सहभागी अभवन्।

आन्दोलनस्य दमनार्थं ब्रिटिशसर्वकारेण गान्धीमहात्मना सह अनेके प्रमुखनेतारः गृहीताः, तथापि जनान्दोलनं समग्रदेशे निरन्तरं प्रवर्तमानम् आसीत्। अनेन भारतस्य स्वातन्त्र्यप्राप्तेः मार्गः अधिकं सुदृढः अभवत्।

महत्त्वपूर्णघटनाचक्रम्

१५०९ – विजयनगरसाम्राज्यस्य सम्राटत्वेन महाराजः कृष्णदेवरायः अभिषिक्तः।

१५४९ – फ्रान्सदेशेन इङ्ग्लण्डदेशस्य विरुद्धं युद्धस्य घोषणा कृता।

१६०९ – वेनिसनगरस्य सीनेट् गैलिलियोनिर्मितां दूरदर्शिनीं निरीक्षितवती।

१७६३ – दीर्घकालीनसङ्घर्षानन्तरं कनाडादेशः फ्रान्सस्य अधिकारात् मुक्तः।

१८६४ – जिनेवानगरे रेडक्रॉससंस्थायाः स्थापना अभवत्।

१८७६ – थॉमस् अल्वा एडिसनः मिमियोग्राफयन्त्रस्य पेटेण्टम् अलभत।

१८९९ – ए. टी. मार्शलः शीतकयन्त्रस्य (रेफ्रिजरेटरस्य) पेटेण्टम् अलभत।

१९०० – बोस्टननगरे प्रथमस्य डेविसकप् स्पर्धाश्रृङ्खलायाः प्रारम्भः अभवत्।

१९०८ – राइट् बन्धुभ्यां निर्मितविमानस्य प्रथमं सार्वजनिकप्रदर्शनम् अभवत्।

१९१९ – ब्रिटेनदेशेन अफगानिस्तानस्य स्वातन्त्र्यं स्वीकृतम्।

१९४२ – महात्मा गान्धिना भारतत्यागान्दोलनस्य शुभारम्भः कृतः।

१९४५ – अमेरिका, ब्रिटेन, फ्रान्स तथा सोवियतसङ्घेन लण्डनसम्झौतापत्रे हस्ताक्षराणि कृतानि। विश्वस्य युद्धापराधिनां न्यायिकविचारणार्थम् एषः सम्झौतापत्रः कृतः।

१९४७ – पाकिस्तानदेशेन स्वस्य राष्ट्रध्वजः अनुमोदितः।

१९६३ – ग्लास्गोनगरात् लण्डननगरं गच्छन्ती रॉयलमेलरेलयानम् अस्त्रधारिभिः दस्युभिः लुण्ठितम्। तैः २.६ मिलियन यूरोपरिमितं धनम् अपहृतम्। ब्रिटेनदेशे एषा घटना ‘द ग्रेट ट्रेन रॉबरी’ इति नाम्ना प्रसिद्धा अभवत्।

१९७४ – वाटरगेटकाण्डे स्वस्य भूमिकां कारणीकृत्य अमेरिकादेशस्य राष्ट्रपति रिचर्ड निक्सनः स्वपदत्यागस्य घोषणाम् अकरोत्। अनन्तरदिने सः पदत्यागम् अकरोत्।

१९८८ – अफगानिस्ताने नववर्षीययुद्धानन्तरं रूसीसेनायाः प्रत्यागमनम् आरब्धम्।

१९८८ – अष्टवर्षीयसङ्घर्षानन्तरम् ईरानदेशयोः इराकदेशयोश्च मध्ये युद्धविरामस्य घोषणा कृता।

१९९० – इराकदेशस्य तत्कालीनशासकेन सद्दाम हुसैनेन कुवैतदेशस्य आधिपत्यस्य घोषणा कृता।

२००२ – ताइवानदेशः स्वातन्त्र्यार्थं जनमतसङ्ग्रहयोजनातः प्रतिन्यवर्तत।

२००३ – पञ्चदश लघुराष्ट्राणि संयुक्तराष्ट्रसङ्घे ताइवानदेशस्य सदस्यतायाः समर्थनम् अकुर्वन्।

२००४ – इटलीदेशेन बोफोर्सदलालीप्रकरणस्य मुख्याभियुक्तः ओट्टावियो क्वात्रोची भारताय समर्पयितुं निषेधः कृतः।

२००४ – जापानदेशेन चीनदेशं पराजित्य एशियाकप् पादकन्दुकस्पर्धायाः विजयोऽर्जितः।

२००७ – एक्सनाना गुसमाओ पूर्वीतिमोरदेशस्य प्रधानमन्त्री अभवत्।

२००८ – चीनदेशस्य बीजिङ्नगरे ओलम्पिकक्रीडानां शुभारम्भः अभवत्।

२०१० – तेजस्विनी सावन्त् म्यूनिखनगरे आयोजितायां विश्वनिशानेबाजीस्पर्धायाः पञ्चाशन्मीटरस्पर्धायां स्वर्णपदकं जित्वा एतां सिद्धिं प्राप्तवती प्रथमा भारतीयमहिला अभवत्।

जन्म

१९९४ – मीराबाई चानू – प्रसिद्धा भारतीयभारोत्तोलिका।

१९७५ – जॉन बारला – भारतीयजनतापक्षस्य राजनीतिज्ञः।

१९५५ – राजीव महर्षि – भारतस्य नियन्त्रकमहालेखापरीक्षकः।

१९०८ – सिद्धेश्वरी देवी – भारतीयशास्त्रीयसङ्गीतगायिका।

१९१५ – भीष्म साहनी – भारतीयलेखकः।

१९२१ – वुलिमिरि रामालिङ्गस्वामी – भारतीयचिकित्सावैज्ञानिकः।

१९४० – दिलीप सरदेसाई – भारतीयक्रिकेटक्रीडकः।

१९४१ – लता देसाई – गुजरातराज्यस्य प्रसिद्धा महिला चिकित्सिका।

१९४२ – बलबीर सिंह खुल्लर – भारतीयहॉकीदलस्य पूर्वसदस्यः।

१९४८ – कपिल सिब्बल – प्रसिद्धः भारतीयराजनीतिज्ञः।

१९४९ – प्रसन्न आचार्य – द्वादशत्रयोदशलोकसभयोः सदस्यः।

१९५२ – सुधाकर राव – भारतीयक्रिकेटक्रीडकः।

१९६८ – अबेय कुरुविला – भारतीयक्रिकेटक्रीडकः।

१९०४ – त्रिभुवन नारायण सिंह – भारतीयराजनेता तथा उत्तरप्रदेशस्य पूर्वमुख्यमन्त्री।

१८९६ – शिवानन्द बाबा – भारतस्य तादृशः व्यक्तिः, यस्य विषये कथ्यते यत् तस्य आयुः षड्विंशत्यधिकशतवर्षात्मकम् (१२६ वर्षाणि) अस्ति।

निधनानि

२०२१ – अनुपम श्याम – भारतीयचलच्चित्रदूरदर्शनकलाकारः।

२००० – एस. निजलिंगप्पा – १९६८–१९६९ तमयोः वर्षयोः भारतीयराष्ट्रियकाङ्ग्रेसस्य अध्यक्षः आसीत्।

Hindusthan Samachar / Dheeraj Maithani