Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ०७ अगस्तमासः (हि.स.)। दिल्ली-मन्त्रीमण्डलेन शुक्रवासरे ‘दिल्ली-निजी-विश्वविद्यालय-विधेयकम्-२०२६’ इत्यस्य अनुमोदनं कृतम्। एतत् विधेयकं दिल्ली-विधानसभायां प्रस्तुतं भविष्यति तथा तत्र पारितं भूत्वा अधिनियमस्य रूपं प्राप्य प्रवर्तनानन्तरं दिल्ली इत्यत्र निजी-विश्वविद्यालयानां स्थापनायाः मार्गः प्रशस्तः भविष्यति।
मुख्यमन्त्रिण्याः रेखा-गुप्तायाः अध्यक्षतायां सम्पन्नायां मन्त्रिमण्डलस्य सभायां दिल्ली-निजी-विश्वविद्यालय-विधेयकस्य अनुमोदनं कृतम्। दिल्ली-सर्वकारस्य कथनम् अस्ति यत् अस्य विधेयकस्य प्रवर्तनेन राजधानी-क्षेत्रे उच्च-शिक्षायाः विस्तारः भविष्यति, स्नातक-पाठ्यक्रमेषु अन्येषु च पाठ्यक्रमेषु आसनानां संख्या वर्धिष्यते तथा छात्रेभ्यः स्वेच्छानुसारं संस्थानेषु गुणवत्तापूर्ण-शिक्षां प्राप्तुं उत्तमः अवसरः प्राप्स्यते। अनेन बहूनां विद्यार्थिनां उच्च-शिक्षायै दिल्ली-नगरात् बहिः गन्तुं आवश्यकता अपि न्यूना भविष्यति।
पर्यावरण-उद्योग-मन्त्री मनजिन्दर-सिंह-सिरसा दिल्ली-विधानसभायाः वर्षाकालीन-सत्रस्य प्रारम्भे अस्य निर्णयस्य स्वागतं कुर्वन् मुख्यमन्त्रिणीं रेखा-गुप्तां शिक्षामन्त्रीम् आशीष-सूदं च अभिनन्दितवान्। तेन उक्तं यत् एषः निर्णयः दिल्ली-नगरस्य उच्च-शिक्षा-व्यवस्थायां ऐतिहासिकं पदक्षेपम् अस्ति, यः अग्रिमेषु वर्षेषु शिक्षा-अनुसन्धान-नवाचार-ज्ञानाधारित-अर्थव्यवस्थां च नूतनां दिशां प्रदास्यति।
तेन उक्तं यत् एतत् केवलं नूतन-विश्वविद्यालयानां स्थापनायाः निर्णयः न, अपितु यूनां भविष्ये निवेशः अस्ति। सर्वकारस्य उद्देश्यम् अस्ति यत् दिल्ली-नगरं देशस्य अग्रणी-शिक्षा-अनुसन्धान-केन्द्ररूपेण विकसितं भवेत्, यत्र विद्यार्थिभ्यः विश्वस्तरीयः शिक्षण-वातावरणः उपलब्धः भवेत्।
सिरसा उक्तवान् यत् प्रतिवर्षं दिल्ली इत्यत्र प्रायः सार्ध-त्रिलक्षं विद्यार्थी द्वादशकक्षाम् उत्तीर्णाः भवन्ति, किन्तु नियमित-स्नातक-पाठ्यक्रमेषु प्रायः सार्ध-एकलक्षं आसनान्येव उपलब्धानि सन्ति। अतः निजी-विश्वविद्यालयानां स्थापनया उच्च-शिक्षायां आसनानां न्यूनतां दूरीकर्तुं सहायता भविष्यति तथा छात्रेभ्यः राजधानी-नगरे एव उत्तमाः शैक्षणिक-विकल्पाः प्राप्स्यन्ति।
तेन उक्तं यत् आम आदमी-पक्षेण तथाकथितस्य “साइकिल-घोटालस्य” “स्वास्थ्य-लुंठनस्य” च इत्यादयः आरोपाः क्रियन्ते, किन्तु अद्यावधि एतेषाम् आरोपाणां समर्थनाय एकमपि विश्वसनीय-तथ्यं प्रमाणं वा प्रस्तुतं न कृतम्। ये जनाः वर्षाणि यावत् दिल्ली-नगरस्य शासनं कृतवन्तः, ते अद्य विकास-कार्याणां स्वीकरणस्य स्थाने केवलं भ्रमं प्रसारयितुं प्रयतन्ते। दिल्ली-सर्वकारेण वर्षाकालात् पूर्वं व्यापकाः सज्जताः कृताः, यस्य परिणामस्वरूपं वर्षाणां यावत् जलप्लावनस्य प्रतीकरूपेण प्रसिद्धे मिन्टो-ब्रिज-स्थले अपि अस्मिन् वर्षे उल्लेखनीयः सुधारः दृष्टः।
तेन उक्तं यत् आम आदमी-पक्षेन निराधार-आरोपाणां राजनैतिक-नाटकीकरणस्य च स्थाने विधानसभायां जनसम्बद्धेषु विषयेषु चर्चा कर्तव्या। यदि विपक्षस्य समीपे किमपि तथ्यं विद्यते तर्हि तत् सदनस्य समक्षं स्थापयतु, किन्तु मिथ्यया दुष्प्रचारेण च जनान् भ्रमितुं प्रयासः सफलः न भविष्यति।
सिरसा उक्तवान् यत् दिल्ली-सर्वकारः पारदर्शितायाः, जनकल्याणस्य, उत्तरदायी-शासनस्य च सङ्कल्पेन निरन्तरं कार्यं करोति। सर्वकारः महिलानां सशक्ती-करणस्य, यूनाम् उज्ज्वल-भविष्यस्य, श्रेष्ठ-शिक्षायाः, आधुनिक-मूलभूत-संरचनायाः तथा जनकल्याणस्य दिशि एकैकं कृत्वा ऐतिहासिकान् निर्णयान् स्वीकरोति।
Hindusthan Samachar / Divya Ranjan