Enter your Email Address to subscribe to our newsletters

फतेहाबादम्, 07 अगस्तमासः (हि.स.)। जनपदप्रशासनेन वनविभागेन च वनमहोत्सवः वृक्षारोपणाभियानं च आयोजितम्
जनपदप्रशासनस्य वनविभागस्य च तत्त्वावधाने शुक्रवासरे राजकीयवरिष्ठमाध्यमिकविद्यालये बनग्रामे वनमहोत्सवकार्यक्रमस्य वृक्षारोपणाभियानस्य च आयोजनम् अभवत्। अस्मिन् कार्यक्रमे हरियाणाश्रमकल्याणमण्डलस्य अध्यक्षः रोहताशजाङ्गडा मुख्यातिथित्वेन उपस्थितः आसीत्। विशिष्टातिथिरूपेण अध्यक्षः राजपालबैनीवालः तथा भारतीयजनतापक्षस्य जनपदाध्यक्षः प्रवीणजोडा उपस्थितौ आस्ताम्।
कार्यक्रमस्य प्रारम्भे मुख्यातिथिना अन्यैश्च अतिथिभिः वृक्षारोपणं कृत्वा पर्यावरणसंरक्षणस्य सन्देशः प्रदत्तः। एसबीपी डीएवी विद्यालयस्य विद्यार्थिभिः विविधाः सांस्कृतिकप्रस्तुतयः प्रदर्शिताः, याभिः पर्यावरणसंरक्षणस्य मादकद्रव्यत्यागस्य च सन्देशः प्रसारितः।
अवसरे अध्यक्षः रोहताशजाङ्गडा अवदत् यत् यथार्थविकासः तदैव सम्भवति यदा पर्यावरणं सुरक्षितं सन्तुलितं च भवति। तेन उक्तं यत् निरन्तरं वर्धमानं वैश्विकतापमानं प्रकृतेः स्पष्टः संकेतः अस्ति यत् अधुना पर्यावरणसंरक्षणे विलम्बस्य कापि सम्भावना नास्ति। भारतीयसंस्कृतौ पृथिवी नद्यश्च मातृरूपेण पूज्यन्ते। एतेषामेव मूल्यानामनुसरणं कुर्वन् प्रधानमन्त्री नरेन्द्रमोदी “मातुः नाम्ना एकः वृक्षः” इति अभियानं प्रारब्धवान्।
अध्यक्षेन पुनरुक्तं यत् केवलं वृक्षारोपणं पर्याप्तं न भवति, अपितु न्यूनातिन्यूनं त्रिवर्षपर्यन्तं तेषां नियमितपरिपालनं प्रत्येकस्य नागरिकस्य कर्तव्यमस्ति।
विशिष्टातिथिः अध्यक्षः राजपालबैनीवालः अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदिना प्रारब्धं “मातुः नाम्ना एकः वृक्षः” अभियानम् अद्य सम्पूर्णे देशे जनान्दोलनरूपं प्राप्तवान्।
भारतीयजनतापक्षस्य जनपदाध्यक्षः प्रवीणजोडा अवदत् यत् पक्षस्य कार्यकर्तारः संकल्पं कृतवन्तः यत् प्रत्येकः कार्यकर्ता स्वमातुः, पुत्र्याः भगिन्याश्च नाम्ना न्यूनातिन्यूनं त्रीन् वृक्षान् अवश्यं रोपयिष्यति, तेषां सम्यक् परिपालनमपि करिष्यति।
कार्यक्रमस्य अन्ते वनमण्डलाधिकारी राजेशलीलडः समागतान् सर्वान् अतिथीन् सस्नेहं स्वागतमकरोत्।
Hindusthan Samachar / Dheeraj Maithani