घुमन्तु-वञ्चितसमुदायस्य पात्रजनानां सूचीं निर्माय तान् सर्वकारीययोजनाभिः सम्बध्येत - आनन्दीबेन-पटेलः
लखनऊ, ०७ अगस्तमासः (हि.स.)। घुमन्तूनां वञ्चितसमुदायस्य च तेषां जनानां सूची निर्मीयताम्, येषां कृते अद्यावधि विभिन्नसर्वकारीययोजनानां लाभः न प्राप्तः। ग्रामप्रधानाः अस्मिन् विषये पात्रलाभार्थिनां सूचीं निर्माय जनपदाधिकारी-कार्यालयाय उपलब्धां कारयन्त
राज्यपाल आंदनबेन पटेल


लखनऊ, ०७ अगस्तमासः (हि.स.)। घुमन्तूनां वञ्चितसमुदायस्य च तेषां जनानां सूची निर्मीयताम्, येषां कृते अद्यावधि विभिन्नसर्वकारीययोजनानां लाभः न प्राप्तः। ग्रामप्रधानाः अस्मिन् विषये पात्रलाभार्थिनां सूचीं निर्माय जनपदाधिकारी-कार्यालयाय उपलब्धां कारयन्तु तथा सूच्या: एकां प्रतिलिपिम् राज्यपाल-कार्यालयाय अपि प्रेषयन्तु। यावत् पात्रेभ्यः जनेभ्यः योजनानां लाभः न प्राप्यते, तावत् तान् योजनाभिः संयोजयितुं आवश्यकाः प्रयासाः निरन्तरं करिष्यन्ते। एताः उक्तयः उत्तरप्रदेशस्य राज्यपालः आनन्दीबेन-पटेलः शुक्रवासरे राष्ट्रीय-हस्तकरघादिवसस्य अवसरे समरसता-सेवासंस्थानेन घुमन्तुजनजातिपरिषदा च आयोजिते सिलाई-कशीदाकर्म-प्रशिक्षणं पूर्णवतीनां घुमन्तुजनजातीयमहिलानां सम्मानसमारोहे उक्तवती। अस्मिन् अवसरे सिवन-कशीदाकर्म-प्रशिक्षणं पूर्णवतीभ्यः महिलाभ्यः प्रमाणपत्राणि प्रदाय सम्मानिताः अपि कृताः।

राज्यपालः महिलाभिः हस्तनिर्मितानां उत्पादानां प्रदर्शिनीम् अवलोकितवती तथा तासां कौशलस्य सृजनात्मकतायाश्च प्रशंसाम् अकरोत्। कार्यक्रमे घुमन्तु-जनजातिपरिषदा अन्यैः समुदायैश्च चयनिताः बालकाः सांस्कृतिकनृत्यस्य प्रस्तुतिं कृतवन्तः, यस्य राज्यपालेन प्रशंसां कृत्वा बालकानाम् उत्साहवर्धनं कृतम्। अस्मिन् अवसरे महिलाभ्यः दश सिवनयन्त्राणि अपि प्रदत्तानि। राज्यपालः प्रशिक्षणं प्राप्तवतीभ्यः महिलाभ्यः शुभकामना: प्रदाय उक्तवती यत् तासां कौशलस्य परिश्रमस्य च सम्मानं कृत्वा सा अत्यन्तं प्रसन्ना अस्ति। सा उक्तवती यत् कौशलम् आत्मनिर्भरता च महिलानां सशक्तीकरणस्य महत्त्वपूर्णं माध्यमम् अस्ति। सा महिलानाम् आह्वानं कृतवती यत् ताभ्यः यत्किमपि कौशलं शिक्ष्यते, तत् पूर्णनिष्ठया परिश्रमेण च अधीत्य तस्मिन् दक्षता प्राप्तव्या।

राज्यपालः उक्तवती यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे केन्द्रसर्वकारेण राज्यसर्वकारेण च विभिन्नयोजनानां माध्यमेन घुमन्तु-वञ्चितसमुदायाभ्यः कौशलप्रशिक्षणं, शिक्षां, स्वास्थ्यसुरक्षां, आजीविकायाः साधनानि च प्रदाय समाजस्य मुख्यधारया सह संयोजयितुं निरन्तरं कार्यं क्रियते। पात्रेभ्यः जनेभ्यः भूमिपट्टाः, आवासः, शौचालयः इत्यादीनां मूलभूतसुविधानाम् लाभः अपि प्रदीयते। सा उक्तवती यत् सर्वकारस्य प्रत्येकस्य योजनायाः उद्देश्यम् एव अस्ति यत् देशस्य प्रत्येकं पात्रनागरिकं योजनानां लाभं प्राप्नुयात्। सा घुमन्तुसमुदायस्य जनानाम् आह्वानं कृतवती यत् ते न्यूनातिन्यूनं शतं तादृशानां जनानां सूचीं निर्माय उपलब्धां कारयन्तु, येषां कृते कस्यचित् कौशलस्य प्रशिक्षणस्य आवश्यकता अस्ति। एतेभ्यः जनेभ्यः विश्वविद्यालयानां माध्यमेन तेषां रुचिम् आवश्यकतां च अनुसृत्य प्रशिक्षणं प्रदास्यते तथा प्रशिक्षणस्य अनन्तरं स्व-रोजगारस्य आरम्भाय प्रधानमन्त्रि-मुद्रा-योजनया सह अन्याभिः सर्वकारीय-योजनाभिः अपि सम्बद्धाः करिष्यन्ते, येन ते स्वव्यवसायम् आरभ्य आत्मनिर्भराः भवितुं शक्नुयुः। सा उक्तवती यत् अस्मिन् कार्ये समुदायस्य जनैरपि स्वसहयोगः प्रदातव्यः। प्रशिक्षणाय नाम दातॄणां प्रत्येकस्य व्यक्तेः प्रशिक्षणकार्यक्रमे शतप्रतिशतं उपस्थितिः सुनिश्चितकर्तव्या। प्रशिक्षणं गम्भीरतया स्वीकृत्य पूर्णनिष्ठया परिश्रमेण च अधेतव्यम्, तदैव प्रशिक्षणस्य वास्तविकम् उद्देश्यं पूर्णं भविष्यति तथा अधिगतं कौशलं रोजगारस्य आजीविकायाश्च माध्यमं कर्तुं शक्यते।

राज्यपालः उपस्थिताभ्यः बालिकाभ्यः सम्बोधयित्वा उक्तवती यत् ताः असामाजिकतत्त्वेभ्यः दूरे तिष्ठन्तु तथा स्वजीवनस्य सुरक्षां सुनिश्चित्य शिक्षायां स्वस्य भविष्ये च ध्यानं ददतु। सा सूचितवती यत् काशीजनपदस्य बालिकागृहे निवसन्तीनां बालिकानां विभिन्नेषु क्षेत्रेषु प्रशिक्षणं प्रदाय संस्थाभिः सह रोजगाराय संयोजयितुं कार्यम् अपि क्रियते। राज्यपालः सूचितवती यत् दशमीकक्षाम् उत्तीर्णाभ्यः आदिवासी-बालिकाभ्यः अग्रिमशिक्षायाः निरन्तरतायै सायकिलयानानि प्रदत्तानि सन्ति, येन आवागमनसुविधायाः अभावेन तासां अध्ययनं बाधितं न भवेत्।

समाजकल्याणमन्त्री असीम-अरुणः कार्यक्रमे उपस्थितेभ्यः सर्वेभ्यः जनेभ्यः शुभकामनाः प्रदाय उक्तवान् यत् राज्यपालः आनन्दीबेन-पटेलः समाजस्य अन्तिमसोपाने स्थितस्य व्यक्तेः उत्थानाय समानतायाः भावनायाश्च सुदृढीकरणस्य दिशि निरन्तरं मार्गदर्शनं प्रेरणां च प्रददाति। सः उक्तवान् यत् राज्यपालस्य मार्गदर्शने भिक्षावृत्तौ संलग्नानां बालकानां भिक्षावृत्तेः मुक्तिं कृत्वा शिक्षायाः मुख्यधारया सह संयोजयितुं दिशि अपि कार्यं क्रियते, येन एतेभ्यः बालकेभ्यः सम्मानजनक-जीवनस्य श्रेष्ठभविष्यस्य च अवसरः प्राप्येत। सः सूचितवान् यत् उत्तरप्रदेशे विमुक्त-घुमन्तु-अर्धघुमन्तु-समाजस्य कल्याणाय तेषां समस्या-समाधानाय च घुमन्तुविकास-मण्डलस्य गठनं कृतम् अस्ति। एतत् मण्डलं मुख्यमन्त्रिणः अध्यक्षतायां कार्यं करिष्यति तथा विमुक्त-घुमन्तु-अर्धघुमन्तु-जातीनां समस्यासमाधानाय, विकासाय कल्याणाय च आवश्यकां कार्यवाहीं सुनिश्चितं करिष्यति।

संस्थायाः संस्थापकः सुनील-शर्मा स्वागतसम्बोधने संस्थया सञ्चालितानां विभिन्नानां सामाजिकानां जनकल्याण-कारीणां च गतिविधीनां विषये प्रकाशं क्षिप्तवान्। रीना-सिंहः महिलानाम् उत्थानस्य, तासां सशक्तीकरणस्य सामाजिकसहभागितायाश्च विषये स्व-विचारान् प्रकटितवती। अस्मिन् अवसरे उत्तरप्रदेशविधानपरिषदः सदस्यः पवन-कुमार-सिंहः, घुमन्तुजनजातिपरिषदः अवधप्रान्तस्य सङ्गठनमन्त्री राजेश-पाण्डेयः, घुमन्तुसमुदायस्य बहुसंख्यकाः परिवारजनाः तथा अन्ये गणमान्यजनाः उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan