सीमापार-आतङ्कवादस्य समाप्तौ एव पाकिस्तानदेशेन सह सामान्याः द्विपक्षीयसम्बन्धाः सम्भवाः - सर्वकारः
नवदिल्ली, ०७ अगस्तमासः (हि.स.)। केन्द्रसर्वकारेण शुक्रवासरे लोकसभायां उक्तं यत् पाकिस्तानदेशेन सह सामान्याः द्विपक्षीयसम्बन्धाः तदैव सम्भवाः सन्ति, यदा सः सीमापार-आतङ्कवादात्, शत्रुतायाः हिंसायाश्च मुक्तं वातावरणं सुनिश्चितं करिष्यति। सर्वकारेण स्प
विदेश मंत्री डॉ. एस. जयशंकर (फाइल फोटो)


नवदिल्ली, ०७ अगस्तमासः (हि.स.)। केन्द्रसर्वकारेण शुक्रवासरे लोकसभायां उक्तं यत् पाकिस्तानदेशेन सह सामान्याः द्विपक्षीयसम्बन्धाः तदैव सम्भवाः सन्ति, यदा सः सीमापार-आतङ्कवादात्, शत्रुतायाः हिंसायाश्च मुक्तं वातावरणं सुनिश्चितं करिष्यति। सर्वकारेण स्पष्टं कृतं यत् सीमापार-आतङ्कवादस्य तेन सम्बद्धस्य च आतङ्कवादी-अवसंरचनायाः समाप्तिः भारतस्य स्पष्टा अटलनीतिः अस्ति।

विदेशमन्त्री डॉ. एस. जयशङ्करेण लोकसभायां एकस्य प्रश्नस्य लिखितोत्तरे उक्तं यत् पाकिस्तानदेशेन सह भारतस्य सम्बन्धाः आतङ्कवादात्, शत्रुतायाः हिंसायाश्च मुक्ते वातावरणे एव अग्रे वर्धितुं शक्नुवन्ति। तथापि पाकिस्तानप्रायोजितः सीमापार-आतङ्कवादः अद्यापि प्रचलति तथा भारतस्य विरुद्धम् आतङ्कवादस्य प्रयोगः आधिकारिकनीतिरूपेण क्रियमाणः अस्ति।

सर्वकारेण उक्तं यत् पुलवामा-आतङ्कवादी-आक्रमणस्य अनन्तरं भारतं पाकिस्तानतः ‘मोस्ट फेवर्ड नेशन’ इति विशेषाधिकारं प्रत्याहरत् तथा पाकिस्तानतः आयातितेषु सर्वेषु वस्तुषु सीमाशुल्कं वर्धयित्वा २०० प्रतिशतं कृतवान्। ततः पाकिस्तानः अपि भारतस्य सह राजनयिकसम्बन्धान् न्यूनीकर्तुं तथा द्विपक्षीयव्यापारं स्थगयितुम् इत्यादीनि एकपक्षीयानि पदानि स्वीकृतवान्।

उत्तरे उक्तं यत् २२ अप्रैलमासे २०२५ दिनाङ्के पाकिस्तानप्रायोजितस्य पहलगाम-आतङ्कवादी-आक्रमणस्य अनन्तरं भारतं बहूनि राजनयिकपदानि स्वीकृतवान्। एतेषु सिन्धुजलसन्धेः स्थगनम्, अटारीस्थस्य निरीक्षण-चौकीस्थलस्य समापनम्, वीजासेवासु प्रतिबन्धः तथा उभयोः देशयोः राजनैयायिकाभियानेषु अधिकारिणां संख्या न्यूनीकरणम् इत्यादीनि पदानि सम्मिलितानि सन्ति। एतदतिरिक्तं पाकिस्तानदेशस्य तथा पाकिस्तानदेशस्य अवैधाधिपत्ये स्थितेषु जम्मू-कश्मीरे आतङ्कवादीस्थलेषु विरुद्धम् सैन्यकार्यम् अपि कृतम्।

सर्वकारेण सूचितं यत् वर्तमानकाले उभयोः देशयोः परस्परराजधान्योः सीमितस्तरे राजनयिकमिशनानि कार्यं कुर्वन्ति। उभयोः देशयोः मध्ये केवलम् आवश्यकाः कार्यात्मकसम्पर्काः एव प्रचलन्ति, येषु महानिदेशक-सैन्यसञ्चालनस्तरस्य वार्ता, बैलिस्टिक-मिसाइल-परीक्षणानां पूर्वसूचनायाः आदानप्रदानम्, परमाणु-प्रतिष्ठानानां सूचीनाम् आदानप्रदानम् तथा परस्परं शरणे स्थितानां मत्स्यजीविनां नागरिकगृहीतानां च विषये सूचनानां आदानप्रदानम् सम्मिलितम् अस्ति।

सर्वकारेण उक्तं यत् भारतं सीमापार-आतङ्कवादस्य तेन सम्बद्धस्य च आतङ्कवादी-अवसंरचनायाः विषये स्वस्य नीतिं स्पष्टतया घोषितवान् अस्ति तथा नागरिकाणां सुरक्षायै सर्वाणि आवश्यकानि पदानि स्वीकृतवान् अस्ति। सर्वकारेण उक्तं यत् सामान्यद्विपक्षीय-सम्बन्धानां पुनर्स्थापनायै सीमापार-आतङ्कवादस्य पूर्णतः समाप्तिः अनिवार्या अस्ति।

Hindusthan Samachar / Divya Ranjan