विज्ञान संकाये नवप्रवेशी विद्यार्थिभ्यःप्रेरणादायी इंडक्शन इत्येषः कार्यक्रमः आयोजितः
जौनपुरम्,07 अगस्तमासः (हि.स.)। उत्तरप्रदेशस्य जौनपुरजनपदे स्थितस्य वीरबहादुरसिंहपूर्वाञ्चलविश्वविद्यालयस्य विज्ञानसङ्काये नवप्रविष्टविद्यार्थिनां स्वागतार्थं मार्गदर्शनार्थं च शुक्रवासरे प्रवेशनिर्देशनकार्यक्रमः आयोजितः। अस्य कार्यक्रमस्य मुख्यातिथ
पूर्वांचल विश्वविद्यालय ने आयोजित नवाचार कार्यक्रम में उपस्थित छात्र छात्राएं


पूर्वांचल विश्वविद्यालय में आयोजित कार्यक्रम को सम्बोधित करते हुए मुख्य अतिथि प्रो ज्ञानेश्वर चौबे


जौनपुरम्,07 अगस्तमासः (हि.स.)। उत्तरप्रदेशस्य जौनपुरजनपदे स्थितस्य वीरबहादुरसिंहपूर्वाञ्चलविश्वविद्यालयस्य विज्ञानसङ्काये नवप्रविष्टविद्यार्थिनां स्वागतार्थं मार्गदर्शनार्थं च शुक्रवासरे प्रवेशनिर्देशनकार्यक्रमः आयोजितः। अस्य कार्यक्रमस्य मुख्यातिथिः विश्वविद्यालयस्य पूर्वछात्रः मानवानुवंशिकीविशेषज्ञः प्रोफेसरः ज्ञानेश्वरचौबे आसीत्।

प्रोफेसरः ज्ञानेश्वरचौबे स्वस्य प्रेरणाप्रदव्याख्याने भारतस्य जनसङ्ख्यायाः इतिहासः, मानवप्रव्रजनम्, भाषिकसांस्कृतिकवैविध्यम् तथा जीनोमिक्सविज्ञानस्य माध्यमेन प्राचीनइतिहासस्य वैज्ञानिकसम्यगवगमनस्य सम्भावनाः इत्येतेषु विषयेषु विस्तरेण प्रकाशम् अकरोत्। तेन विद्यार्थिनः अनुसन्धानम्, नवोन्मेषः, वैज्ञानिकदृष्टिकोणस्य ग्रहणं च कृत्वा वैश्विकस्तरे उत्कृष्टयोगदानं दातुं प्रेरिताः।

कार्यक्रमस्य अध्यक्षतां विज्ञानसङ्कायस्य अधिष्ठाता प्रोफेसरः प्रदीपकुमारः अकरोत्। तेन विज्ञानसङ्कायस्य शैक्षणिकोपलब्धयः, आधुनिकप्रयोगशालाः तथा अनुसन्धानसुविधाः इत्येषां विषये विस्तृतसूचना प्रदत्ता।

छात्रकल्याणाधिष्ठाता प्रोफेसरः प्रमोदकुमारयादवः छात्रवृत्तीनां छात्रसुविधानां च विषये विद्यार्थिनः अवगतवान्। मुख्यछात्रावासाधीक्षकः प्रोफेसरः अविनाशडीपाथर्डिकरः छात्रावासव्यवस्थाः अनुशासनसम्बद्धविषयांश्च विस्तरेण निरूपितवान्।

कार्यक्रमस्य सञ्चालनं डॉ. राधिका अकरोत्। अस्मिन्नवसरे प्रोफेसरः रामनारायणः, डॉ. एस.पी. तिवारी, डॉ. विवेकपाण्डेयः, डॉ. संजीवकुमारमौर्यः तथा विज्ञानसङ्कायस्य अन्ये अध्यापकाः उपस्थिताः आसन्।

कार्यक्रमस्य समापनसमये विद्यार्थिनः एतं कार्यक्रमं ज्ञानवर्धकं प्रेरणादायकं च कथयन्तः स्वविश्वविद्यालयीयजीवनस्य सफलप्रारम्भाय अत्यन्तमुपयोगी इति अभ्यधुः।---------------

Hindusthan Samachar / Dheeraj Maithani