Enter your Email Address to subscribe to our newsletters


भोपालम्, 06 अगस्तमासः (हि.स.)।
असमराज्यस्य नागांवमण्डलस्य कटिमारीस्थे केन्द्रीयआरक्षितपुलिसबलस्य चतुस्त्रिंशत्तमवाहिन्याः शिविरे गतमङ्गलवासरे जातायां गोलीकाण्डघटनायां प्राणान् त्यक्तवन्तः मध्यप्रदेशस्य बालाघाटमण्डलस्य वीरजवानः प्रधानआरक्षकः विष्णुबघेलः गुरुवासरे स्वस्य पैतृकग्रामे राजकीयसम्मानेन सह अन्त्येष्टिकर्मणा सम्मानितः।
असमराज्यस्य केन्द्रीयआरक्षितपुलिसबलशिविरे गतचतुर्थागस्तदिने जातायां गोलीकाण्डघटनायां प्रधानआरक्षकः विष्णुप्रसादबघेलः वीरगतिं प्राप्तवान्। गुरुवासरे तस्य पार्थिवशरीरं पैतृकग्रामम् आनीतम्। यदा केन्द्रीयआरक्षितपुलिसबलस्य विशेषवाहनेन तिरङ्गध्वजेन आच्छादितः तस्य शवपेटिकः ग्रामम् आगतः, तदा समग्रः वातावरणः शोकाकुलः अभवत्। स्वस्य वीरपुत्रस्य अन्तिमदर्शनार्थं परिवारजनानां ग्रामवासिनां च नेत्रेषु अश्रूणि आसन्। सम्पूर्णः प्रदेशः “यावत् सूर्यश्चन्द्रश्च भविष्यतः, तावत् विष्णोः नाम अमरं भविष्यति” इत्यादिघोषैः गुञ्जितः अभवत्।
वीरजवानस्य अन्तिमविदायां दातुं बहुसंख्यया ग्रामवासिनः जनप्रतिनिधयश्च उपस्थिताः। क्षेत्रीयविधायकः मधुभगतः, उपमण्डलाधिकारी, तहसीलदारः अन्ये च प्रशासनिकाधिकारिणः पार्थिवशरीरे पुष्पचक्राणि समर्प्य भावपूर्णां श्रद्धाञ्जलिम् अर्पितवन्तः। ततः परं परसवाडास्थिते शेरपारमार्गस्य शक्तिघाटे केन्द्रीयआरक्षितपुलिसबलस्य जवानैः गार्ड् ऑफ् ऑनर् प्रदत्तः, पूर्णराजकीयसम्मानेन च तस्य अन्त्येष्टिः सम्पन्ना। अस्मिन् अवसरे शतशः जनाः सजलनेत्रैः स्वस्य वीरसुताय अन्तिमविदायाम् अयच्छन्।
वीरगतिं प्राप्तः विष्णुबघेलः स्वमातापित्रोः एकमात्रः पुत्रः आसीत्। तस्य परिवारे पत्नी, एकः पुत्रः, एका पुत्री च सन्ति। तिरङ्गध्वजेन आच्छादितस्य अस्य वीरसुतस्य अन्तिमविदायां बहुसंख्यया ग्रामवासिनः, जनप्रतिनिधयः, प्रशासनिकाधिकारिणश्च उपस्थिताः आसन्।
उल्लेखनीयमस्ति यत् गतचतुर्थागस्तदिने प्रातःकाले असमराज्यस्य नागांवमण्डलस्थिते केन्द्रीयआरक्षितपुलिसबलस्य चतुस्त्रिंशत्तमवाहिन्याः शिविरे एकः जवानः आकस्मिकतया स्वीयया इन्सासराइफलया बैरकं क्वार्टरगार्डं च प्रति अन्धाधुन्धं गोलीप्रहारम् आरब्धवान्। अस्यां घटनायां प्रधानआरक्षकः विष्णुप्रसादबघेलः सहितौ द्वौ जवानौ मृत्युम् उपगतौ, अपरः एकः जवानः गम्भीररूपेण आहतः अभवत्। घटनानन्तरम् आरोपितजवानः स्वयमपि स्वात्मानं प्रति गोलीप्रहारं कृतवान्। गम्भीरतया आहतः विष्णुबघेलः त्वरितम् चिकित्सालयं नीतः, किन्तु चिकित्सोपचारस्य समये सः प्राणान् त्यक्तवान्।
सूच्यते यत् प्रधानआरक्षकस्य विष्णुप्रसादबघेलस्य अद्यतनकाले एव भोपालस्थितायाः सप्तोत्तरशततमवाहिन्याः असमस्थितां चतुस्त्रिंशत्तमवाहिनीं प्रति स्थानान्तरणम् अभवत्। राष्ट्रसेवायै समर्पितः विष्णुबघेलः स्वकर्तव्यपालने पूर्णनिष्ठया निरतः आसीत्। अस्याः आकस्मिकायाः घटनायाः कारणात् तस्य परिवारः एव न, अपितु समग्रः बालाघाटमण्डलः अपि गम्भीरशोकमग्नः अभवत्।
---------------
Hindusthan Samachar / Dheeraj Maithani