प्रधानमन्त्रिणः मोदी-महोदयस्य विकसितभारत-२०४७-सङ्कल्पं युववंशं पूरयिष्यति - मुख्यमन्त्री डॉ. यादवः
भोपालम्, ०७ अगस्तमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः उक्तवान् यत्, “अस्माकं प्रदेशः विकासस्य दिशि निरन्तरम् अग्रे वर्धते। प्रधानमन्त्रिणः नरेन्द्रमोदिनः विकसितभारत-२०४७ इति सङ्कल्पस्य दिशि अद्यतन-युववंशं भारतं मध्यप्रदेशं च प्रथम
मुख्यमंत्री डॉ. यादव ने छिंदवाड़ा में किया सोशल मीडिया इंफ्लूएंसर्स से संवाद


भोपालम्, ०७ अगस्तमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः उक्तवान् यत्, “अस्माकं प्रदेशः विकासस्य दिशि निरन्तरम् अग्रे वर्धते। प्रधानमन्त्रिणः नरेन्द्रमोदिनः विकसितभारत-२०४७ इति सङ्कल्पस्य दिशि अद्यतन-युववंशं भारतं मध्यप्रदेशं च प्रथमस्थाने नेष्यति।”

मुख्यमन्त्री डॉ. मोहनयादवः शुक्रवासरे छिन्दवाडानगरे जनविश्वास-अभियान-२०२६-अवसरे आयोजिते सामाजिकमाध्यम-प्रभावकाणां कार्यक्रमे उक्तवान् यत् अस्माभिः सर्वैः एतस्याः दिशः कार्यं कर्तव्यम्। सर्वकारेण सञ्चालितानां जनकल्याणकारीयोजनानां लाभः प्रत्येकं पात्रं लाभार्थिनं प्राप्नुयात्, अस्य कृते अस्माकं सर्वकारेण जनविश्वास-अभियानं सञ्चाल्यते। सर्वकारस्य अधिकारिणः कर्मचारिणश्च शिविराणि आयोज्य लाभार्थिनां समस्याः स्थले एव समाधास्यन्ति। प्रदेशसर्वकारेण सर्वकारीयेषु सेवाक्षेत्रेषु निरन्तरं नियुक्तयः क्रियन्ते। अधिकारिभ्यः कर्मचारिभ्यश्च पदोन्नतिः प्रदीयते। सर्वेषु विभागेषु निरन्तरं नियुक्तयः क्रियन्ते। सर्वकारः यूनां सशक्तीकरणाय सामाजिकमाध्यम-प्रभावकानाम् सम्मानम् अपि करोति।

अस्मिन् अवसरे मुख्यमन्त्री डॉ. यादवः जबलपुरस्य, छिन्दवाडायाः, सिवनी-मण्डलस्य, मण्डलायाः, पाण्डुर्णायाः, नरसिंहपुरस्य तथा बैतूलस्य सामाजिकमाध्यम-प्रभावकैः विषयवस्तु-निर्मातृभिश्च सह संवादं कृतवान्। सः सामाजिकमाध्यमस्य परिवर्तमानां भूमिकां जनसञ्चारे च तस्य महत्त्वं प्रति स्वविचारान् प्रकटितवान्। तत्पूर्वं विषयवस्तु-निर्मात्रा मुख्यमन्त्रिणः डॉ. यादवस्य पुष्पगुच्छेन स्वागतं कृतम्। कार्यक्रमस्य समये मुख्यमन्त्री डॉ. यादवः प्रभावकैः सह प्रत्यक्षं संवादम् अपि कृतवान्। अस्मिन् अवसरे सः विषयवस्तु-निर्मातॄणां प्रश्नानां समुचितम् उत्तरम् अपि दत्तवान्।

सामाजिकमाध्यमं सशक्तं प्रभावशाली च माध्यमम्

मुख्यमन्त्री उक्तवान् यत् वर्तमानकाले सामाजिकमाध्यमं स्वस्य विचारान् शीघ्रं जनजनं प्रति प्रेषयितुं सशक्तं प्रभावशाली च माध्यमं जातम् अस्ति। सकारात्मकानां, तथ्याधारितानां तथा समाजहितसम्बद्धानां सन्देशानां व्यापकप्रसारणे विषयवस्तु-निर्मातॄणां महत्त्वपूर्णा भूमिका अस्ति। सामाजिकमाध्यमस्य माध्यमेन शासनस्य जनकल्याणकारीयोजनाः, विकास-कार्याणि तथा समाजे सकारात्मक-परिवर्तनं जनयितुं क्रियमाणाः प्रयासाः अधिकप्रभावेण जनानां समीपं प्रेषयितुं शक्यन्ते। सामाजिकमाध्यम-प्रभावकाः स्वस्य सृजनात्मकतायाः प्रभावस्य च उपयोगं समाजे सकारात्मक-वातावरणस्य निर्माणाय तथा जनहितसम्बद्धानां सन्देशानां व्यापकस्तरे प्रसारणाय कुर्वन्तु। डिजिटलमाध्यमानां वर्धमानप्रभावस्य अस्मिन् युगे विश्वसनीयस्य सकारात्मकस्य च सूचनायाः प्रसारणं समयस्य आवश्यकता अस्ति।

सः उक्तवान् यत् प्रदेशस्य युवभ्यः रोजगारस्य अवसराः प्राप्नुयुः, अस्य कृते निवेशस्य उद्योगानां च प्रोत्साहनं दीयते। तथैव प्रदेशे धार्मिकपर्यटनस्य प्रोत्साहनस्य दिशि निरन्तरं कार्याणि क्रियन्ते। अनेन अपि प्रदेशस्य युवभ्यः रोजगारस्य अवसराः उत्पत्स्यन्ते।

विषयवस्तु-निर्मातृभ्यः प्रभावकेभ्यश्च पुरस्काराः प्रदास्यन्ते

मुख्यमन्त्री डॉ. मोहनयादवः उक्तवान् यत् डिजिटल-विषयवस्तु-निर्मातृभ्यः ‘डिजिटल-कण्टेण्ट्-क्रिएटर्-अवार्ड्’ इति पुरस्काराः प्रदास्यन्ते। सकारात्मक-चिन्तनस्य, सामाजिकजागरूकतायाः तथा नवाचारस्य प्रोत्साहनं कुर्वद्भ्यः यूट्यूब-विषयवस्तु-निर्मातृभ्यः रील-निर्मातृभ्यश्च सम्मानः पुरस्कारश्च प्रदास्यते। एतेभ्यः प्रेरणां प्राप्य बहवः युवानः सकारात्मकचिन्तनेन नवाचारकार्याणि अपि कृतवन्तः।

Hindusthan Samachar / Divya Ranjan