मध्यप्रदेशः- मुख्यमंत्री डॉ. यादवोऽद्य छिंदवाड़ातः करिष्यति मुख्यमंत्री जन-विश्वास अभियानस्य 2026 शुभारंभः
- प्रत्येकस्मिन् शुक्रवासरे भविष्यति परिवादानां समस्यानां समाधानम् भोपालम्, 07 अगस्तमासः (हि.स.)। मुख्यमन्त्री डॉ. मोहनयादवः अद्य (शुक्रवासरे) छिन्दवाडानगरात् राज्यस्तरीयं ‘मुख्यमन्त्री जनविश्वास-अभियानम्–२०२६’ इत्यस्य शुभारम्भं करिष्यति। अस्य अ
सीएम मोहन यादव (फाइल फोटो)


- प्रत्येकस्मिन् शुक्रवासरे भविष्यति परिवादानां समस्यानां समाधानम्

भोपालम्, 07 अगस्तमासः (हि.स.)। मुख्यमन्त्री डॉ. मोहनयादवः अद्य (शुक्रवासरे) छिन्दवाडानगरात् राज्यस्तरीयं ‘मुख्यमन्त्री जनविश्वास-अभियानम्–२०२६’ इत्यस्य शुभारम्भं करिष्यति। अस्य अभियानस्य अन्तर्गतं मन्त्रालयात् आरभ्य मण्डलस्तरपर्यन्तं सर्वे अधिकारिणः प्रत्येकं शुक्रवासरे कार्यालयं त्यक्त्वा क्षेत्रेषु जनसामान्यानां मध्ये उपस्थिताः भविष्यन्ति।

जनसम्पर्काधिकारी राजेशबैनः अवदत् यत् जनविश्वास-अभियानस्य उद्देश्यं क्षेत्रेषु गत्वा जनतया सह प्रत्यक्षसंवादः सुदृढसम्बन्धस्य च स्थापना, शिकायतानां समस्याश्च शतप्रतिशतं निराकरणम्, क्षेत्रीयवास्तविकस्थितीनां प्रतिपुष्टेः प्राप्तिः, प्रशासनस्य पर्यवेक्षणतन्त्रस्य सुदृढीकरणं तथा प्रशासनस्य पारदर्शिसंवेदनशीलप्रतिमायाः निर्माणम् अस्ति।

शासनप्रशासनं क्षेत्रभ्रमणे भविष्यति

अस्मिन् अभियाने प्रत्येकसप्ताहस्य शुक्रवासरे सम्पूर्णे प्रदेशे अपरिहार्यपरिस्थितिं विहाय कस्मिन्नपि स्तरे कापि उपवेशनं न भविष्यति। अयं दिवसः केवलं क्षेत्रभ्रमणाय समर्पितः भविष्यति। भोपालनगरात् आरभ्य सम्भागमण्डलपर्यन्तं सर्वे वरिष्ठाधिकारिणः क्षेत्रभ्रमणे भविष्यन्ति। अभियाने मुख्यमन्त्री, मन्त्रिगणः, शासनस्य वरिष्ठाधिकारिणः, स्थानीयजनप्रतिनिधयश्च अपि सम्मिलिताः भविष्यन्ति। मण्डलसमाहर्ता भ्रमणात् एकसप्ताहपूर्वमेव भ्रमणक्षेत्रं चिन्हितं करिष्यति तथा जनप्रतिनिधीन् सूचयिष्यति। सहैव माध्यमैः प्रचारप्रसारोऽपि क्रियिष्यते।

भ्रमणात् एकसप्ताहपूर्वमेव तस्मिन् क्षेत्रे सी.एम. हेल्पलाइन, जनसुनवाई तथा लोकसेवागारण्टीसम्बद्धानां लम्बितप्रकरणानां समीक्षा क्रियिष्यते। भ्रमणात् पूर्वमेव लम्बितप्रकरणानां शतप्रतिशतं निराकरणं सुनिश्चितं करिष्यते। येषां प्रकरणानां निराकरणं शेषं भविष्यति तथा भ्रमणकाले प्राप्तानाम् आवेदनानां च स्थले एव निराकरणं क्रियिष्यते।

जनसंवादात् उद्योगसंवादः

अभियानस्य अन्तर्गतं मण्डलसमाहर्ता मण्डलीयाधिकारिभिः सह क्षेत्रभ्रमणं करिष्यति। द्विविधौ जनसंवादः उद्योगसंवादश्च आयोजयिष्येते। सूक्ष्मलघुमध्यमोद्यमानां तथा कुटीरोद्यमानां उद्यमिनां समस्याः स्थले एव निराक्रियन्ते। मुख्यमन्त्री मुख्यसचिवश्च पूर्वनिर्धारितकार्यक्रमानुसारं विभिन्नमण्डलेषु गमिष्यतः। मुख्यमन्त्रिणः भ्रमणक्षेत्रे एव मण्डलस्य ‘समाधान ऑनलाइन’ कार्यक्रमः आयोजयिष्यते। भ्रमणात् पूर्वं लम्बितानां तथा भ्रमणानन्तरं प्राप्तानाम् आवेदनानां तुलनात्मकसमीक्षा क्रियिष्यते। मण्डलानां कार्यप्रदर्शनस्य मुख्यमन्त्रिणः मुख्यसचिवस्य च स्तरे नियमितसमीक्षा भविष्यति।

सम्पूर्णम् अभियानं सादग्या मितव्ययितया च सञ्चालयिष्यते। साजसज्जादिषु अनावश्यकव्ययेषु परिहारः क्रियिष्यते। सहैव वाहनानां संयुक्तोपयोगः भविष्यति तथा शासकीयसंस्थासु सार्वजनिकस्थानेषु वा पूर्वनिर्मितभवनेष्वेव संवादकार्यक्रमाः आयोजयिष्यन्ते।

लम्बितप्रकरणानां शतप्रतिशतं निराकरणं भविष्यति

सी.एम. हेल्पलाइन तथा जनसुनवाईमध्ये प्राप्तानां भ्रमणक्षेत्रसम्बद्धानां लम्बितशिकायतानां शतप्रतिशतं निराकरणं, लोकसेवागारण्टीअधिनियमस्य अन्तर्गतं पञ्जीकृतानां लम्बितप्रकरणानां शतप्रतिशतं निराकरणं, अविवादितनामान्तरण-सीमाङ्कन-विभाजनसम्बद्धलम्बितप्रकरणानां शतप्रतिशतं निराकरणं, न्यायालयीयादेशानन्तरमपि राजस्वाभिलेखेषु अमलाभावसम्बद्धानां लम्बितप्रकरणानां शतप्रतिशतं निराकरणं च क्रियिष्यते।

कृषकाणां समस्याः निराकरिष्यन्ते

सर्वेषां पात्रकृषकाणां फार्मर्-आई.डी. निर्माणं सुनिश्चितं करिष्यते। सर्वेषां पात्रव्यक्तीनाम् आयुष्मान्-कार्डनिर्माणमपि सुनिश्चितं भविष्यति। समग्र-आई.डी. इत्यस्य ई-केवाइसी, आधारपत्रस्य निर्माणम् अथवा अद्यतनीकरणसम्बद्धप्रकरणानां निराकरणं च क्रियिष्यते। प्रधानमन्त्र्याः आवासयोजनायाः अन्तर्गतं पात्रपरिवाराणाम् आवासप्रदानस्य समीक्षापि करिष्यते।

---------------

Hindusthan Samachar / Dheeraj Maithani