मध्यप्रदेशे स्वाधीनतादिवसस्य अवसरे सदाचरणयुक्तेभ्यः १२४ निगृहीतेभ्यः दण्डे विशेषपरिहारः प्रदास्यते
भोपालम्, ०७ अगस्तमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः शुक्रवासरे सूचितवान् यत् राज्यसर्वकारेण स्वाधीनतादिवसस्य पुण्यावसरे सदाचरणस्य, अनुशासितव्यवहारस्य तथा निर्धारितपात्रतायाः आधारेण प्रदेशस्य कारागारेषु गृहीतेभ्यः १२४ पात्रेभ्यः
सीएम मोहन यादव (फाइल फोटो)


भोपालम्, ०७ अगस्तमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः शुक्रवासरे सूचितवान् यत् राज्यसर्वकारेण स्वाधीनतादिवसस्य पुण्यावसरे सदाचरणस्य, अनुशासितव्यवहारस्य तथा निर्धारितपात्रतायाः आधारेण प्रदेशस्य कारागारेषु गृहीतेभ्यः १२४ पात्रेभ्यः गृहीतेभ्यः दण्डे विशेषपरिहारस्य लाभः प्रदास्यते।

मुख्यमन्त्री डॉ. यादवः सामाजिकमाध्यमे ‘एक्स’ इत्यत्र उक्तवान् यत् स्वाधीनता-दिवसस्य अवसरे आजीवनकारावासदण्डेन दण्डितेभ्यः ११८ गृहीतेभ्यः समयपूर्वं मुक्तेः तथा अन्येभ्यः ६ पात्रेभ्यः गृहीतेभ्यः विशेषपरिहारस्य लाभः प्रदास्यते।

मुख्यमन्त्री उक्तवान् यत् पात्रगृहीतानां समयपूर्वमुक्तिः विशेषपरिहारश्च अन्यान् निरुद्धगृहीता: अपि सदाचरणाय प्रोत्साहयिष्यति। सः उक्तवान् यत् सुधारात्मकन्यायव्यवस्थायाः भावनानुसारं सर्वकारस्य एष: प्रयत्न: पात्रगृहीतानां पुनर्वासस्य तथा समाजस्य मुख्यधारायां तेषां सम्मानपूर्वकं पुनर्स्थापनस्य उद्देश्यम् अधिकं गतिं प्रदास्यति।

Hindusthan Samachar / Divya Ranjan