Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ०७ अगस्तमासः (हि.स.)। उपराष्ट्रपतिना सी.पी. राधाकृष्णनेन, लोकसभाध्यक्षेन ओम-बिरला इत्यनेन, केन्द्रीय-गृहमन्त्रिणा सहकारितामन्त्रिणा च अमित-शाहेन सह अनेकैः नेतृभिः शुक्रवासरे राष्ट्रीय-हस्ततन्तु-दिवसे देशस्य सर्वेभ्यः तन्तुवायेभ्यः हार्दिकाः शुभकामनाः प्रदत्ताः।
उपराष्ट्रपतिना ‘एक्स’-माध्यमे उक्तं यत् भारतस्य हस्ततन्तु-परम्परा एका जीवन्त-धरोहरत्वेन अस्ति, या कलाकौशलस्य, दृढतायाः वंशेभ्यः परम्परया प्राप्तस्य च शिल्पस्य सूत्रैः विनिर्मिता अस्ति। अस्मिन् अवसरे वयं तान् तन्तुवायान् शिल्पिनः च नमनं कुर्मः, येषां समर्पणेन एष: अमूल्य: धरोहर: जीवित: अस्ति। तेषां परिश्रमेण स्थायि-रोजगारस्य सृजनं भवति तथा ग्रामीण-समुदायाः सशक्ताः भवन्ति। हस्तनिर्मितं प्रत्येकं वस्तु अस्माकं संस्कृतेः समृद्धिं स्वावलम्बनस्य भावनां च प्रतिबिम्बयति। हस्ततन्तु-उत्पादानां चयनं कृत्वा, स्थानीय-शिल्पिनां समर्थनं कृत्वा तथा ‘स्थानीयाय स्वरः’ इति भावनां ‘आत्मनिर्भर-भारतम्’ इति दृष्टिकोणं च सुदृढं कृत्वा तेषां अमूल्ययोगदानस्य उत्सवं कुर्मः।
ओम-बिरला इत्यनेन उक्तं यत् ‘राष्ट्रीय-हस्ततन्तु-दिवसे’ देशस्य सर्वेषां तन्तुवायानां श्रमस्य कौशलस्य च तथा देशस्य शताब्दीनां प्राचीनस्य धरोहरस्य सम्मानं भवति। कोटा-डोरिया इत्यादय: अद्भुता: हस्ततन्तु-उत्पादा: अस्माकं सांस्कृतिक-समृद्धेः ‘आत्मनिर्भर-भारतस्य’ च सशक्तं प्रतीकत्वेन सन्ति। तेन हस्ततन्तु-उत्पादानां स्वीकरणे, स्थानीय-तन्तुवायानां समर्थनं कर्तुं तथा सांस्कृतिक-धरोहरस्य संरक्षणं तां च अग्रे वर्धयितुं बलं प्रदत्तम्।
रक्षामन्त्रिणा राजनाथ-सिंहेन उक्तं यत् अद्य देशस्य सर्वेषां तन्तुवायानां सम्मानं कुर्मः, भारतस्य शताब्दीनां प्राचीनाः तन्तुवयन-परम्पराः संरक्षामः तथा गौरवेण हस्ततन्तु-उत्पादानां चयनं कृत्वा ‘स्थानीयाय स्वरः’ इत्यस्य प्रति स्वकीयां प्रतिबद्धतां पुनः दृढीकुर्मः।
शाहेन उक्तं यत् भारतस्य हस्ततन्तु-क्षेत्रं स्वातन्त्र्य-आन्दोलनेन सह गभीररूपेण सम्बद्धम् आसीत् तथा तत् भारतस्य समृद्धायाः सांस्कृतिक-धरोहरस्य विविधतायाः च प्रतीकम् अस्ति। हस्ततन्तु-वयनस्य कलायाः संरक्षणाय तस्याः च नूतनं आयामं प्रदातुं प्रधानमन्त्रिणा नरेन्द्र-मोदिना ‘राष्ट्रिय-हस्ततन्तु-दिवसस्य’ प्रारम्भः कृतः। तदतिरिक्तं वैश्विक-व्यापार-सन्धिभिः घरेलु-सहयोगेन च तन्तुवायानां कृते नूतनान् अवसरान् सृजित्वा मोदी-सर्वकारः अस्य क्षेत्रस्य प्रोत्साहनं कुर्वन् अस्ति।
केन्द्रीय-सडक-परिवहन-राजमार्ग-मन्त्रिणा नितिन-गड्करिणा उक्तं यत् प्रत्येकं हस्ततन्तु-वयनस्य अन्तः भारतस्य आत्मा निहिता अस्ति। तत् कौशलेन, परम्परया वंशानां समर्पणेन च वीयते। अद्य वयं तान् शिल्पिनः सम्मानयामः, येषां कलाकौशलेन देशस्य सांस्कृतिक-परिचयं समृद्धा भवति तथा असंख्यानां जनानां आजीविकायाः आधारः प्राप्यते।
केन्द्रीय-वस्त्र-मन्त्रिणा गिरिराज-सिंहेन उक्तं यत् हस्ततन्तुः केवलं वस्त्र-निर्माणस्य माध्यमं न, अपितु भारतस्य समृद्धस्य सांस्कृतिक-धरोहरस्य उत्कृष्ट-शिल्पकलायाः च तथा लक्षशः तन्तुवाय-परिवाराणाम् आजीविकायाः सशक्तम् आधारः अस्ति। प्रत्येकं हस्ततन्तु-उत्पादं देशस्य तन्तुवायानां कौशलस्य, समर्पणस्य ‘आत्मनिर्भर-भारतस्य’ संकल्पस्य च प्रतीकम् अस्ति। राष्ट्रिय-हस्ततन्तु-दिवसः अस्माकं धरोहरस्य गौरवं कर्तुं, तन्तुवायानां योगदानस्य सम्मानं कर्तुं तथा भारतीय-हस्ततन्तुं नूतनाः उन्नतयः प्रति नेतुं स्वसंकल्पं अधिकं दृढीकर्तुं अवसरः अस्ति।
Hindusthan Samachar / Divya Ranjan