Enter your Email Address to subscribe to our newsletters

काठमांडूः, 07 अगस्तमासः (हि.स.)।
नेपालस्य संसदि गतकिञ्चित्कालात् सदस्यानां वेशभूषां विशेषतः कृष्णवर्णीयनेत्रावरणधारणं प्रति प्रवर्तमाना चर्चा इदानीम् औपचारिकनिर्देशरूपेण परिणता। प्रतिनिधिसभायाः सभामुखेन डोलप्रसादअर्यालेन प्रधानमन्त्री बालेन्द्रशाहः, गृहमन्त्री सुधनगुरूङ्गः, भौतिकपूर्वाधारमन्त्री सुनीललम्सालः, अन्ये च सांसदाः संसदि सभासु कृष्णवर्णीयनेत्रावरणं न धारयेयुः, निर्धारितवेशभूषायाः पालनं च कुर्वन्तु इति निर्देशः प्रदत्तः।
राष्ट्रीयस्वतन्त्रपक्षस्य निर्वाचिताः अनेके सांसदाः मन्त्रिणश्च संसदि सभासु कृष्णवर्णीयनेत्रावरणं धारयित्वा उपस्थिता भवन्ति स्म। विपक्षीयसांसदैः पुनः पुनः एतत् संसदीयगरिमायाः मर्यादायाश्च प्रतिकूलम् इति उक्तम्। सभामुखस्य निजीसचिवेन नवराजपाण्डेन उक्तं यत् निर्देशे सांसदाः निर्धारितवेशभूषां धारयेयुः, सांसदस्य आधिकारिकचिह्नं धारयेयुः, किन्तु कृष्णवर्णीयनेत्रावरणं धारयित्वा सदने न उपस्थिताः भवेयुः। संसदीयगरिमायाः संरक्षणार्थमेव अयं निर्णयः कृतः।
बुधवासरे कार्यव्यवस्थापरामर्शसमितेः उपवेशने सांसदानाम् अनुशासनम्, उपस्थितिः, वेशभूषा, संसदीयाचारश्च विषये विस्तृता चर्चा अभवत्। सभामुखेन विभिन्नदलानां मुख्यसचेतकाः सचेतकाश्च वेशभूषानियमस्य पालनार्थं सक्रियभूमिकां निर्वोढुं निर्देशिताः।
एतस्मिन्नेव काले नेपालीकाङ्ग्रेसदलस्य सांसदा वासनाथापा प्रश्नम् उपस्थितवती यत् यदा प्रधानमन्त्री स्वयमेव कृष्णवर्णीयनेत्रावरणं धारयित्वा सदनम् आगच्छति तर्हि नियमपालनं कथं सुनिश्चितं भविष्यति। अस्य उत्तररूपेण सभामुखेन स्पष्टतया उक्तं यत् प्रधानमन्त्री अपि कस्यचित् राजनैतिकदलस्य सदस्यः अस्ति, अतः सम्बन्धितदलस्य मुख्यसचेतकः सचेतकश्च तस्मै आवश्यकनिर्देशान् दातुं शक्नुतः।
उपवेशने राष्ट्रियस्वतन्त्रपक्षस्य सचेतिका क्रान्तिशिखाधितालेन कोटधारणं सांसदस्य आधिकारिकचिह्नधारणं च अनिवार्यं करणीयम् इति प्रस्तावः प्रस्तुतः। राष्ट्रपतिनः उपस्थितिसमये अन्येषु विशेषसमारोहेषु च वेशभूषानियमस्य पूर्वमेव प्रवर्तनस्य उदाहरणमपि प्रस्तुतम्।
नेपालीसाम्यवादीपक्षस्य मुख्यसचेतकेन युवराजदुलालेन उक्तं यत् सभामुखेन स्पष्टशब्देषु निर्दिष्टं यत् अधुना वेशभूषा, आधिकारिकचिह्नधारणं, संसदीयमर्यादा इत्येषु विषये किमपि कारणं न ग्राह्यं भविष्यति तथा नियमाः सर्वेषां कृते समानरूपेण प्रवर्तिष्यन्ते।
चर्चाकाले अनेकेषां सदस्याणाम् एषा जिज्ञासापि अभवत् यत् यदि प्रधानमन्त्री स्वयमेव कृष्णवर्णीयनेत्रावरणं धारयित्वा आगच्छति तर्हि तस्य विषये किं भविष्यति। सभामुखेन उत्तरं दत्तं यत् प्रधानमन्त्री मन्त्रिणश्च नियमानुसारं सदने उपस्थिताः भवन्तु इति सुनिश्चितीकरणं सत्तारूढदलस्य उत्तरदायित्वम् अस्ति।
नेपालस्य संसदि अर्वाचीनकालेषु विधायिककार्येभ्यः अधिकं सांसदानां व्यवहारस्य वेशभूषायाश्च चर्चा प्रवर्तते। एतादृशे समये सभामुखस्य अयं निर्देशः संसदीयसंस्थायाः अनुशासनव्यवस्थां दृढीकर्तुं कृतः प्रयासः इति दृष्ट्या परिगण्यते।
---------------
Hindusthan Samachar / Dheeraj Maithani