आई.आई.टी. दिल्ली इत्यस्य दीक्षान्त-समारोहः श्वः, प्रधानमन्त्रिणा मोदीना मेधाविनः छात्राः सम्मानिताः भविष्यन्ति
नवदिल्ली, ०७ अगस्तमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र-मोदी शनिवासरे दिलीस्थितस्य भारतीय-प्रौद्योगिकी-संस्थानस्य सप्तपञ्चाशत्तमस्य दीक्षान्त-समारोहम् अवसरं प्राप्य मेधाविभ्यः छात्रेभ्यः सर्वोच्च-सम्मानानि प्रदास्यति। अस्मिन् अवसरे सः सोनीपत-परिसरे
प्रधानमंत्री नरेन्द्र मोदी (फाइल फोटो)


नवदिल्ली, ०७ अगस्तमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र-मोदी शनिवासरे दिलीस्थितस्य भारतीय-प्रौद्योगिकी-संस्थानस्य सप्तपञ्चाशत्तमस्य दीक्षान्त-समारोहम् अवसरं प्राप्य मेधाविभ्यः छात्रेभ्यः सर्वोच्च-सम्मानानि प्रदास्यति। अस्मिन् अवसरे सः सोनीपत-परिसरे स्थापितायाः कृत्रिम-बुद्धिमत्ता-सञ्चा-लितायाः उच्च-प्रदर्शन-सुपर-कम्प्यू-टिङ्ग-सुविधायाः ‘परम-प्रज्ञा’ इत्यस्याः उद्घाटनम् अपि करिष्यति।

प्रधानमन्त्री-कार्यालयस्य अनुसारं प्रधानमन्त्री मोदी समारोहस्य समये उपाधिं प्राप्यमाणेभ्यः ५८७ पीएच.डी.-शोधार्थिभिः सहितेभ्यः त्रिसहस्रात् अधिकेभ्यः स्नातकेभ्यः सम्बोधनं करिष्यति। ततः सः मेधाविभ्यः छात्रेभ्यः संस्थानस्य प्रतिष्ठिततम-सम्मानानि प्रदास्यति। एतेषु राष्ट्रपतेः स्वर्णपदकं, निदेशकस्य स्वर्णपदकं, शङ्करदयाल-शर्मा-स्वर्ण-पदकं तथा ‘परफेक्ट-टेन’ स्वर्णपदकं प्रमुखानि सन्ति।

प्रधानमन्त्री आई.आई.टी. दिल्ली इत्यस्य सोनीपत-परिसरे स्थापितायाः कृत्रिम-बुद्धिमत्ता-सञ्चालितायाः उच्च-प्रदर्शन-सुपरकम्प्यूटिङ्ग-सुविधायाः ‘परम-प्रज्ञा’ इत्यस्याः उद्घाटनं करिष्यति। अस्याः अत्याधुनिक-सुविधायाः माध्यमेन संस्थानस्य कृत्रिम-बुद्धिमत्तायां, दत्तांश-विज्ञाने, उन्नत-सङ्गणके तथा अन्तर्विषयक-अनुसन्धान-क्षमतासु उल्लेखनीयः विस्तारः भविष्यति इति अपेक्षा अस्ति।

Hindusthan Samachar / Divya Ranjan