Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 07 अगस्तमासः (हि.स.)।
प्रधानमन्त्री नरेन्द्र मोदी अद्य प्रातःकाले एक्समाध्यमे राष्ट्रियहस्तकरघादिवसस्य तथा देशस्य तन्तुवायीनां अमूल्यपरम्परायाः उल्लेखम् अकुरुत्। तेन उक्तं यत् तन्तुवायिनः एतां विरासतं पीढीपरम्परया संरक्षितवन्तः।
प्रधानमन्त्री अलिखत् यत्“अद्य राष्ट्रियहस्तकरघादिवसस्य अवसरे वयं भारतस्य समृद्धां सजीवां च हस्तकरघपरम्परां समुत्सवामहे। अस्माकं तन्तुवायिनां शिल्पिनां च कौशलं, सृजनशीलता, समर्पणभावं च प्रणमामः। संततिपरम्परया ते अस्माकं परम्पराः संरक्ष्य समृद्धाः कृतवन्तः।”
प्रधानमन्त्री मोदी अवदत् यत् “अस्माकं सर्वकारः हस्तकरघक्षेत्रस्य समर्थनं निरन्तरं करिष्यति। एतत् क्षेत्रं ग्रामीणसशक्तीकरणस्य, महिलानेतृत्वविकासस्य तथा आत्मनिर्भरभारतस्य स्वप्नसाकारणस्य महत्त्वपूर्णः स्तम्भः अस्ति।”
अस्मिन्नवसरे तेन सर्वेषाम् आह्वानं कृतं यत् ते #NationalHandloomDay इति हॅशटैगस्य उपयोगं कृत्वा स्वेषां प्रियहस्तकरघनिर्मितवस्तूनि तथा जीआरडब्ल्यूएम इति विडियोरूपाणि अवश्यं समविभजन्तु। अनेन अस्मिन् क्षेत्रे कार्यरतानां जनानाम् उत्साहः वर्धिष्यते।
ज्ञातव्यं यत् प्रधानमन्त्री अस्मिन् सन्देशे आङ्ग्लभाषायाः जीआरडब्ल्यूएम इति चत्वारि अक्षराणि प्रयुक्तवान्। अस्य विस्तृतरूपं “गेट् रेडी विथ् मी” इति अस्ति, यस्य अर्थः “मया सह सज्जीभवत” इति भवति। एषः सामाजिकमाध्यमेषु अतीव लोकप्रियः विडियोप्रारूपः अस्ति, यस्मिन् सर्जकः अथवा विडियोलेखकः कस्यचित् दिवसस्य, समारोहस्य अथवा विशेषकार्यक्रमस्य सज्जीकरणप्रक्रियां संवादरूपेण दर्शकैः सह समविभजति।
---------------
Hindusthan Samachar / Dheeraj Maithani