राष्ट्रीय-हस्ततन्तु-दिवसः - प्रधानमन्त्री-सन्देशे असमस्य अंगप्रोक्षणाय विशेषं स्थानं प्राप्तम् - हिमन्तः
गुवाहाटी, ०७ अगस्तमासः (हि.स.)। असमस्य मुख्यमन्त्री डॉ. हिमन्त-बिस्व-सर्मणा शुक्रवासरे उक्तं यत् प्रधानमन्त्री नरेन्द्र-मोदी सर्वदा असमस्य तन्तुवायानां शिल्पकौशलस्य, विशेषतः ‘गामोछा’ -‘अरोनाई’-वस्त्रयोः च, राष्ट्रीयस्तरे अन्ताराष्ट्रियस्तरे च परिचय
मुख्यमंत्री डॉ हिमंत बिस्व सरमा द्वारा साझा प्रधानमंत्री नरेन्द्र मोदी की तस्वीर।


गुवाहाटी, ०७ अगस्तमासः (हि.स.)। असमस्य मुख्यमन्त्री डॉ. हिमन्त-बिस्व-सर्मणा शुक्रवासरे उक्तं यत् प्रधानमन्त्री नरेन्द्र-मोदी सर्वदा असमस्य तन्तुवायानां शिल्पकौशलस्य, विशेषतः ‘गामोछा’ -‘अरोनाई’-वस्त्रयोः च, राष्ट्रीयस्तरे अन्ताराष्ट्रियस्तरे च परिचयं प्रतिष्ठां च प्रदातुं कार्यं कृतवान्।

राष्ट्रीय-हस्ततन्तु-दिवसस्य अवसरे प्रधानमन्त्रिणः विशेष-सन्देशे असमस्य गौरवभूतस्य ‘गामोछा’-वस्त्रस्य उल्लेखः कृतः। मुख्यमन्त्रिणा अस्मिन् विषये उक्तं यत् एतत् सम्पूर्णस्य राज्यस्य कृते गौरवस्य विषयः अस्ति।

मुख्यमन्त्रिणा जनानाम् आह्वानं कृतं यत् ते हस्तनिर्मितानि ‘गामोछा’-वस्त्राणि स्थानीय-वस्त्राणि च क्रीणन्तु। अनेन राज्यस्य समृद्धायाः हस्ततन्तु-परम्परायाः संरक्षणं भविष्यति तथा स्थानीय-अर्थव्यवस्था अपि सुदृढा भविष्यति।

Hindusthan Samachar / Divya Ranjan