Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ०७ अगस्तमासः (हि.स.)। राष्ट्रपतिः द्रौपदी-मुर्मुः उक्तवती यत् हस्ततन्तु-क्षेत्रस्य सतत्-विकासाय नूतन-प्रौद्योगिकीनां समुचितः उपयोगः आवश्यकः अस्ति। युवभिः, डिजाइनर इत्यतै: तथा स्टार्टअप्-संस्थाभिः पारम्परिक-शिल्पं आधुनिक-प्रवृत्तिभिः, ब्राण्ड्-संस्थाभिः वैश्विक-मूल्य-शृङ्खलाभिश्च संयोज्य अस्मिन् क्षेत्रे नवीनाः अवसराः सृजनीयाः।
राष्ट्रपतिः शुक्रवासरे राष्ट्रपतिभवनस्य सांस्कृतिक-केन्द्रे आयोजिते द्वादशे राष्ट्रिय-हस्ततन्तु-दिवस-समारोहे सन्त-कबीर-हस्ततन्तु-पुरस्कारं तथा राष्ट्रीय-हस्ततन्तु-पुरस्कारं-२०२५ च प्रदत्तवती। अस्मिन् अवसरे भारतस्य समृद्धाभ्यः विविधाभ्यश्च हस्ततन्तु-परम्पराभ्यः समर्पितानि चत्वारि स्मारक-डाक-चिटिका: अपि प्रकाशिता:।
समारोहं सम्बोधयन्ती राष्ट्रपतिः उक्तवती यत् हस्ततन्तुः शताब्दीभ्यः भारतस्य सभ्यतायाः सांस्कृतिक-विकास-यात्रायाश्च अभिन्नः भागः अस्ति। एषः देशस्य विविधतां क्षेत्रीय-विशिष्टताश्च संरक्षन् रोजगार-सृजनं, महिला-सशक्तीकरणं, कला-संस्कृतेः संरक्षणं तथा प्रकृतिं प्रति संवेदनशीलतां च प्रोत्साहयति। तया उक्तं यत् हस्ततन्तोः भारतस्य स्वातन्त्र्य-सङ्ग्रामे आत्मनिर्भरता-भावनायां च गहनः सम्बन्धः आसीत्।
तया उक्तं यत् १९०५ तमस्य वर्षस्य अगस्त-मासस्य ०७ दिनाङ्के बंग-भङ्गस्य विरोधे स्वदेशी-आन्दोलनस्य औपचारिकः आरम्भः अभवत्, यस्य उद्देश्यम् आसीत् स्वदेशीय-वस्तूनां, गृह-उद्योगानां विशेषतः देशस्य हस्ततन्तु-वयन्तॄणां च प्रोत्साहनम्। अस्याः ऐतिहासिक-घटनायाः स्मरणार्थं २०१५ तमस्य वर्षात् अगस्त-मासस्य ०७ दिनाङ्कः राष्ट्रीय-हस्ततन्तु-दिवसरूपेण आचर्यते। तया हस्ततन्तु-क्षेत्रे सम्बद्धेभ्यः सर्वेभ्यः राष्ट्रिय-हस्ततन्तु-दिवसस्य शुभकामनाः प्रदत्ताः।
राष्ट्रपतिः उक्तवती यत् भारतस्य हस्ततन्तु-क्षेत्रे ग्रामीण-प्रधान-अर्थव्यवस्थायाः मानवीयं सशक्तं च उदाहरणं भवितुं क्षमता अस्ति। प्रमुखाः हस्ततन्तु-समूहाः आधुनिक-प्रौद्योगिक्या समकालीन-प्रशिक्षणेन च संयोज्यन्ते तथा वयन्तॄणाम् आयं वर्धयितुं सर्वकारेण अनेके उपायाः क्रियन्ते। तया प्रसन्नता व्यक्ता यत् सर्वकारस्य प्रयत्नैः भारतीय-हस्ततन्तु-क्षेत्रस्य वैश्विक-परिचयः “प्रमाणित-सांस्कृतिक-अर्थव्यवस्था” इति रूपेण सुदृढः भवति।
तया उक्तं यत् प्रौद्योगिक्या नवाचारैश्च सम्पन्नाः अनेकाः युव-उद्यमिनः अस्मिन् क्षेत्रे प्रविशन्ति। सर्वकारीय-योजनानां संस्थानां च माध्यमेन युवभ्यः सक्रियं सहयोगं प्रदातव्यम्, येन तेषां उत्साहः कौशलं च हस्ततन्तु-क्षेत्रस्य दीर्घकालिक-प्रगतिं सुनिश्चितं कर्तुं शक्नुयात्। तया उक्तं यत् भारतीय-हस्ततन्तु-प्रौद्योगिकी-संस्थानानां वयन्तृ-सेवा-केन्द्राणां च अन्तर्गतं स्थापितानि डिजाइन-संसाधन-केन्द्राणि युवानः अस्मिन् क्षेत्रे संयोजयितुं महत्त्वपूर्णां भूमिकां निर्वहन्ति।
राष्ट्रपतिः उक्तवती यत् डिजिटल-समाधानानां ई-वाणिज्य-मञ्चानां च माध्यमेन भारतीय-हस्ततन्तु-उत्पादानां विपण्यां प्रवेशः वैश्विक-उपस्थिति च अधिकं सुदृढं कर्तुं शक्यते। तया विश्वासः व्यक्तः यत् हस्ततन्तु-क्षेत्रं देशस्य समावेशी-विकास-यात्रायाः आत्मनिर्भर-भारतस्य निर्माणस्य च सुदृढः आधारः भविष्यति।
उल्लेखनीयं यत् सन्त-कबीर-हस्ततन्तु-पुरस्कारः देशस्य हस्ततन्तु-वयन्तृभ्यः प्रदीयमानं सर्वोच्चं सम्मानम् अस्ति, यदा तु राष्ट्रिय-हस्ततन्तु-पुरस्कारः उत्कृष्ट-सृजनशीलतायाः, गुणवत्तायाः, नवाचारस्य तथा पारम्परिक-कौशलस्य संरक्षणे उल्लेखनीय-योगदानं ददद्भ्यः वयन्तृभ्यः अन्येभ्यः हितधारकेभ्यश्च प्रदीयते।
Hindusthan Samachar / Divya Ranjan