प्रधानमंत्री मोदी सामाजिकमाध्यमे सुभाषितम् सह कृत्वा सज्जनमनुष्याय चन्द्रमाः इव बोधितः
नव दिल्ली, 07 अगस्तमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र मोदी प्रतिदिनवत् अद्य प्रातःकाले स्वस्य सामाजिकमाध्यमस्य सन्देशे सज्जनपुरुषस्य तुलनां चन्द्रेण अकुरुत। तेन चन्द्रस्य सज्जनहृदयस्य च गुणानामपि उल्लेखः कृतः। प्रधानमन्त्री मोदी एक्समाध्यमे एत
प्रधानमंत्री नरेन्द्र मोदी की एक्स पोस्ट।


नव दिल्ली, 07 अगस्तमासः (हि.स.)।

प्रधानमन्त्री नरेन्द्र मोदी प्रतिदिनवत् अद्य प्रातःकाले स्वस्य सामाजिकमाध्यमस्य सन्देशे सज्जनपुरुषस्य तुलनां चन्द्रेण अकुरुत। तेन चन्द्रस्य सज्जनहृदयस्य च गुणानामपि उल्लेखः कृतः।

प्रधानमन्त्री मोदी एक्समाध्यमे एतत् सुभाषितं समविभजत् यत्

किं चन्द्रमाः प्रत्युपकारलिप्सया करोति गोभिः कुमुदावबोधनम्।

स्वभाव एवोन्नतचेतसां सतां परोपकारव्यसनं हि जीवितम्॥

प्रधानमन्त्रिणः एक्समाध्यमे अस्य अर्थः अपि प्रदर्शितः यत्— चन्द्रमा प्रत्युपकारस्य काञ्चिदपि आकाङ्क्षां विना स्वकिरणैः कुमुदिनीं विकासयति। एतत् तस्य स्वाभाविको गुणः। तथैव महान् उदारहृदयश्च सज्जनः स्वार्थमपेक्षां वा विना परहितं करोति, यतः परोपकारः तस्य स्वभाव एव भवति।

सुभाषितरूपेण समविभक्तः अयं श्लोकः महाकवेः भवभूतेः विरचितः अस्ति। अस्य उल्लेखः रसिकलक्षणे (रसिकजीवने), शार्ङ्गधरपद्धत्यां तथा सुभाषितरत्नभाण्डागारे प्राप्यते।

---------------

Hindusthan Samachar / Dheeraj Maithani