Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ०७ अगस्तमासः (हि.स.)। लोकसभाध्यक्षेन ओम-बिरला इत्यनेन, केन्द्रीय-गृहमन्त्रिणा सहकारितामन्त्रिणा च अमित-शाहेन सह अनेकैः नेतृभिः शुक्रवासरे नोबेल-पुरस्कार-विजेतुः राष्ट्रगानस्य ‘जन-गण-मन’ इत्यस्य रचयितुः रवीन्द्रनाथ-ठाकुरस्य पुण्यतिथौ श्रद्धाञ्जलिः समर्पिता।
ओम-बिरला इत्यनेन ‘एक्स’-माध्यमे उक्तं यत् भारतस्य सांस्कृतिक-पुनर्जागरणस्य महान् शिल्पी, विश्वकविः, नोबेल-पुरस्कार-विजेता तथा राष्ट्रगानस्य ‘जन-गण-मन’ इत्यस्य रचयिता रवीन्द्रनाथ-ठाकुरः आसीत्। तस्य पुण्यतिथौ वयं तस्मै भावपूर्णां श्रद्धाञ्जलिं समर्पयामः। ठाकुरः न केवलं महान् कविः आसीत्, अपितु दार्शनिकः, शिक्षाविद्, सङ्गीतकारः, चित्रकारः, समाज-सुधारकः मानवतावादी-विचारकः च आसीत्। स्वकीयाभिः साहित्यिक-कृतिभिः, शैक्षिक-दर्शनेन सांस्कृतिक-दृष्ट्या च तेन भारतीय-चेतनायै नूतना दिशा प्रदत्ता। १९१३ तमे वर्षे ‘गीताञ्जलि’ इत्यस्याः कृते साहित्यस्य नोबेल-पुरस्कारं प्राप्य गुरुदेवेन भारतीय-साहित्याय वैश्विक-परिचयः प्रदत्तः। तस्य मतम् आसीत् यत् शिक्षा केवलं ज्ञानार्जनस्य साधनं न, अपितु व्यक्तेः सर्वाङ्गीण-विकासस्य स्वतन्त्र-चिन्तनस्य च आधारः अस्ति। तस्य कृतयः समाजं अधिकं संवेदनशीलं, जागरूकं मानवीयं च भवितुं निरन्तरं प्रेरयन्ति।
अमित-शाहेन उक्तं यत् स्वकीयाभिः रचनाभिः ठाकुरेण भारतस्य आत्मनः स्वरः अभिव्यक्तः तथा स्वातन्त्र्य-आन्दोलने नूतन-चेतनायाः सञ्चारः कृतः। तस्य अमर-रचना ‘जन-गण-मन’ राष्ट्रस्य एकीकृत-चेतनायाः आत्मगौरवस्य च प्रतीकम् अस्ति। विश्वभारती-विश्वविद्यालयस्य स्थापनां कृत्वा तेन भारतीय-संस्कृतेः, दर्शनस्य शिक्षायाः च महत्त्वं वैश्विक-मञ्चे प्रतिष्ठापितम्। तस्य साहित्यं अद्यापि कोटिशः देशवासिनां कृते प्रेरणायाः अक्षयः स्रोतः वर्तते।
केन्द्रीय-सडक-परिवहन-राजमार्ग-मन्त्रिणा नितिन-गड्करिणा उक्तं यत् राष्ट्रीय-गानस्य ‘जन-गण-मन’ इत्यस्य वास्तविक-भावनां साकारं कर्तुं प्रेरणां प्रदत्तवतः नोबेल-पुरस्कार-विजेतुः रवीन्द्रनाथ-ठाकुरस्य पुण्यतिथौ सादरं नमनम्।
केन्द्रीय-वस्त्र-मन्त्रिणा गिरिराज-सिंहेन उक्तं यत् स्वकीयाभिः अमूल्याभिः कालजयीभिः रचनाभिः, गहनैः विचारैः साहित्यस्य प्रति अद्वितीय-समर्पणेन च भारतीय-दर्शनं संस्कृतिं च वैश्विक-मञ्चे गौरवान्वितं कृतवतः ठाकुरः देशवासिनां हृदयेषु सदैव निवसिष्यति
नागरिक-विमानन-सहकारिता-राज्यमन्त्रिणा मुरलीधर-मोहोलेन उक्तं यत् मानवतायाः, देशभक्तेः विश्वबन्धुत्वस्य च सन्देशं प्रदत्तवता गुरुदेव-ठाकुरेण स्वकीयया लेखन्या, विचारैः कृतिभिश्च भारतीय-साहित्याय संस्कृत्यै च वैश्विक-परिचयः प्रदत्तः। तस्य अमूल्यं योगदानं प्रेरणादायकाः विचाराश्च अग्रिम-वंशानां सदैव मार्गदर्शनं करिष्यन्ति।
Hindusthan Samachar / Divya Ranjan