Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ०७ अगस्तमासः (हि.स.)। भारतस्य राष्ट्रगानस्य ‘जन-गण-मन’ इत्यस्य रचयिता, नोबेल-पुरस्कारेण सम्मानितः महान् कविः, साहित्यकारः शिक्षाविद् च गुरुदेवः रवीन्द्रनाथ-ठाकुरः आसीत्। तस्य पुण्यतिथौ केन्द्रीय-राज्यमन्त्रिणा अर्जुन-राम-मेघवालेन, भारतीय-जनता-पक्षस्य राष्ट्रियाध्यक्षेण नितिन-नवीनेन, कांग्रेस-पक्षस्य राष्ट्रीयाध्यक्षेण मल्लिकार्जुन-खरगे इत्यनेन तथा आम-आदमी-पक्षस्य राष्ट्रिय-संयोजकेन दिल्ली-पूर्व-मुख्यमन्त्रिणा च अरविन्द-केजरीवालेन तस्मै भावपूर्णा श्रद्धाञ्जलिः समर्पिता तथा तस्य विचारान् साहित्यिक-धरोहरं च नमनं कृतम्।
केन्द्रीय-राज्यमन्त्रिणा (स्वतन्त्र-प्रभारः) अर्जुन-राम-मेघवालेन गुरुदेव-रवीन्द्रनाथ-ठाकुराय नमनं कृत्वा उक्तं यत् भारतीय-संस्कृतिः, साहित्यं, शिक्षा, तस्य विचाराः कालजयी-कृतयश्च अग्रिम-वंशेभ्य: निरन्तरं प्रेरणां प्रदास्यन्ति।
भारतीय-जनता-पक्षस्य राष्ट्रीयाध्यक्षेन नितिन-नवीनेन गुरुदेवे विनम्रां श्रद्धाञ्जलिं समर्पयता उक्तं यत् तेन स्वकीयैः साहित्यैः चिन्तनेन च भारतीय-संस्कृतेः वैश्विक-परिचयः प्रदत्तः। सः अवदत् यत् ‘गीताञ्जलि’ इत्यस्य माध्यमेन ठाकुरेण विश्वपटलस्य पुरतः भारतस्य आत्मनः अभिव्यक्तिः कृता तथा शान्तिनिकेतनस्य स्थापनां कृत्वा शिक्षां मानवीय-मूल्यैः सह सम्बद्धुं मार्गः प्रशस्तः कृतः। तस्य विचाराः आदर्शाश्च सदैव समाजस्य मार्गदर्शनं करिष्यन्ति।
कांग्रेस-पक्षस्य अध्यक्षेन मल्लिकार्जुन-खरगेण रवीन्द्रनाथ-ठाकुराय श्रद्धाञ्जलिं समर्पयता तं नोबेल-पुरस्कार-विजेतारं, दूरदर्शिनं कविं, दार्शनिकं, शिक्षाविदं, समाज-सुधारकं मानवतावादिनं च उक्तम्। तेन उक्तं यत् भारतस्य राष्ट्रगानस्य रचयिता तथा विश्वस्य महानतमेषु साहित्यकारेषु अन्तर्भूतः ठाकुरः करुणया, सृजनात्मकतया प्रगतिशील-चिन्तनेन च कालजयीं धरोहरं प्रदत्तवान्, सा अद्यापि मानवतां प्रेरयति।
पूर्व-केन्द्रीय-शिक्षामन्त्रिणा धर्मेन्द्र-प्रधाननेन उक्तं यत् रवीन्द्रनाथ-ठाकुरेण भारतीय-साहित्याय, संस्कृतये शिक्षाक्षेत्राय च नूतना चेतना प्रदत्ता। तेन उक्तं यत् ठाकुरस्य कृतिषु राष्ट्रप्रेम्णः, मानवीय-संवेदनायाः, प्रकृतेः आध्यात्मिक-चेतनायाश्च अद्भुतः समन्वयः दृश्यते। शिक्षां जीवनेन सह सम्बद्धुं तस्य अवधारणा तथा भारतीय-संस्कृतेः वैश्विक-प्रसाराय तेन कृताः प्रयासाः अद्यापि प्रासङ्गिकाः सन्ति।
आम-आदमी-पक्षस्य राष्ट्रीय-संयोजकेन दिल्ली-पूर्व-मुख्यमन्त्रिणा च अरविन्द-केजरीवालेन गुरुदेवाय नमनं कृत्वा उक्तं यत् भारताय महान् राष्ट्रगानं प्रदत्तुं देशः तं प्रति सदैव ऋणी भविष्यति। तेन उक्तं यत् ठाकुरस्य अमरम् असाधारणं च साहित्यं युगानुयुगं देशवासिनः प्रेरयिष्यति।
दिल्ली-मुख्यमन्त्रिण्या रेखा-गुप्तया रवीन्द्रनाथ-ठाकुरस्य पुण्यतिथौ तस्मै विनम्रा श्रद्धाञ्जलिः समर्पिता। तया उक्तं यत् राष्ट्रगानस्य ‘जन-गण-मन’ इत्यस्य रचयिता, नोबेल-पुरस्कारेण सम्मानितः महान् कविः साहित्यकारश्च ठाकुरस्य जीवनं भारतीय-संस्कृतेः, राष्ट्रचेतनां मानवतां च प्रति समर्पितम् आसीत्। तस्य कालजयी-साहित्यं समाजं कर्तव्यस्य, सेवायाः सांस्कृतिक-गौरवस्य च मार्गे निरन्तरम् अग्रे नेतुं प्रेरयिष्यति।
Hindusthan Samachar / Divya Ranjan