पूर्णतया पारदर्शी चयन प्रक्रियायां केनचित् क्रीडकेन सह अन्यायो न भवेत् : डॉ. मांडविया
नवदिल्ली, 07 अगस्तमासः (हि.स.)। केन्द्रीययुवकार्यक्रमक्रीडामन्त्री डॉ मनसुखमाण्डवियः शुक्रवासरे राष्ट्रियक्रीडामहासङ्घोपवेशने २०२६ क्रीडकानां हितानि सर्वोच्चप्राथमिकतया स्वीकर्तुं, चयनप्रक्रियायां पूर्णपारदर्शितां सुनिश्चितुं, क्रीडाप्रशासने व्या
केंद्रीय युवा कार्यक्रम एवं खेल मंत्री डॉ. मनसुख मांडविया


नवदिल्ली, 07 अगस्तमासः (हि.स.)।

केन्द्रीययुवकार्यक्रमक्रीडामन्त्री डॉ मनसुखमाण्डवियः शुक्रवासरे राष्ट्रियक्रीडामहासङ्घोपवेशने २०२६ क्रीडकानां हितानि सर्वोच्चप्राथमिकतया स्वीकर्तुं, चयनप्रक्रियायां पूर्णपारदर्शितां सुनिश्चितुं, क्रीडाप्रशासने व्यापकसुधारान् च प्रवर्तयितुं विशेषं बलम् अददात्।

सः अवदत् यत् कस्यापि क्रीडकस्य प्रति कदापि किमपि अन्यायः न भवेत् तथा चयनप्रक्रिया निष्पक्षा, उत्तरदायिनी, पूर्णतया पारदर्शिनी च भवेत्। उपवेशने राष्ट्रियक्रीडाप्रशासनाधिनियमस्य २०२५ अनुपालनम्, सुशासनम्, क्रीडककल्याणम्, एशियाक्रीडाः २०२६, लॉसएञ्जिलिस ओलम्पिकक्रीडाः २०२८, राष्ट्रमण्डलक्रीडाः २०३० च इत्येतासां सिद्धतायाः समीक्षा कृता।

उपवेशनं सम्बोधयन् डॉ मनसुखमाण्डवियः अवदत् यत् अस्माकं उत्तरदायित्वम् अस्ति यत् कस्यापि क्रीडकस्य प्रति कदापि कस्यापि प्रकारस्य अन्यायः न भवेत्। अन्यायः नानारूपेण भवितुं शक्नोति, अतः यत्र यदा च एतादृशी स्थितिः उत्पद्यते तदा तस्याः निवारणं पूर्णगम्भीरतया करणीयम्। चयनप्रक्रियायाः पारदर्शितायां विशेषं बलं दत्त्वा सः अवदत् यत् क्रीडकानां चयनार्थम् आयोज्यमानाः मुक्तचयनपरीक्षाः चित्रग्रहणयन्त्राणां निरीक्षणे पर्यवेक्षकाणां च उपस्थितौ एव आयोजनीयाः। चयनप्रक्रियायाः पारदर्शितायां कस्यापि प्रकारस्य सम्झौतुः स्थानं नास्ति।

प्रधानमन्त्रिणः नरेन्द्रमोदिनः क्रीडाविषयकदृष्टिकोणस्य उल्लेखं कुर्वन् केन्द्रीयमन्त्री अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदी निरन्तरम् एतस्मिन् विषये बलं ददाति यत् क्रीडकाः अधिकाधिककालं क्रीडाङ्गणे क्रीडितुं अवसरं प्राप्नुयुः तथा च देशे सुदृढा लीगसंस्कृतिः विकसितव्या। प्रत्येकेन राष्ट्रियक्रीडामहासङ्घेन वर्षपर्यन्तं क्रीडकानां कृते अधिकाः स्पर्धात्मकाः अवसराः प्रदातुं प्रयत्नः करणीयः।

उत्तेजकद्रव्यप्रयोगस्य विषये डॉ मनसुखमाण्डवियः अवदत् यत् भारतेन अस्याः समस्यायाः सामूहिकरूपेण समाधानं कर्तव्यम् तथा च विद्यमानव्यवस्था अधिका सुदृढा कर्तव्या। सः अवदत् यत् उत्तेजकद्रव्यप्रयोगस्य समस्यां वयं सर्वे मिलित्वा एव पराजेतुं शक्नुमः। केवलं क्रीडकानां विरुद्धं कार्यवाही पर्याप्ता नास्ति। निषिद्धद्रव्यनिर्मातारः, तेषां आपूर्तिकर्तारः, प्रदातारः, उपयोक्तारश्च सम्पूर्णश्रृङ्खलायाः परिचयं प्राप्य पारदर्शिन्या सुदृढया व्यवस्थया कार्यवाही करणीया। तदैव क्रीडाक्षेत्रात् उत्तेजकद्रव्यप्रयोगः प्रभावकरूपेण निवारयितुं शक्यते।

सः एतदपि अवदत् यत् देशेन विदेशीयप्रशिक्षकेषु अत्यधिकनिर्भरता त्यक्त्वा सुदृढा भारतीयप्रशिक्षकव्यवस्था विकसितव्या। डॉ मनसुखमाण्डवियः अवदत् यत् उत्कृष्टानां भारतीयप्रशिक्षकाणां सुदृढः समूहः निर्मातव्यः। क्रीडकानां प्रशिक्षणवत् प्रशिक्षकाणामपि प्रशिक्षणे समानरूपेण निवेशः करणीयः। तेभ्यः उत्तमप्रशिक्षणम् अन्ताराष्ट्रियानुभवश्च प्रदातव्यः। सम्यक् प्रशिक्षितः प्रशिक्षकः एव देशाय विश्वस्तरीयान् क्रीडकान् निर्मातुं समर्थः भवति।

केन्द्रीयक्रीडामन्त्री अवदत् यत् केन्द्रीयसर्वकारः राष्ट्रियक्रीडाप्रशासनाधिनियमस्य २०२५ प्रभावीअनुपालनं, क्रीडामहासङ्घेषु सुशासनस्य सुनिश्चितीकरणं, आगामिनाम् एशियाक्रीडानाम्, ओलम्पिकक्रीडानाम्, राष्ट्रमण्डलक्रीडानां च सिद्धतायाः सुदृढीकरणार्थं राष्ट्रियक्रीडामहासङ्घैः सह निरन्तरं कार्यं करिष्यति।

अस्मिन् उपवेशने केन्द्रीयक्रीडाराज्यमन्त्री रक्षाखडसे, क्रीडामन्त्रालयस्य, भारतीयक्रीडाप्राधिकरणस्य वरिष्ठाधिकारिणः तथा विभिन्नराष्ट्रियक्रीडामहासङ्घानां प्रतिनिधयः उपस्थिताः आसन्।

---------------

Hindusthan Samachar / Dheeraj Maithani