२०१७ तम-वर्षात् पूर्वं उत्तरप्रदेशे भ्रातृ-पुत्र-पक्षपाते निमग्नस्य सर्वकारस्य समीपे जनतायै समयः नासीत् - योगी-आदित्यनाथः
लखनऊ, ०७ अगस्तमासः (हि.स.)। मुख्यमन्त्री योगी-आदित्यनाथः राष्ट्रिय-हस्ततन्तु-दिवस-२०२६ इत्यस्य अवसरे शुक्रवासरे अत्र लोकभवने हस्ततन्तु-उत्पादानां प्रदर्शिनीम् अवलोकितवान् तथा उत्कृष्ट-तन्तुवायान् ‘सन्त-कबीर-राज्यस्तरीय-हस्ततन्तु-पुरस्कारेण’ सम्मानि
लोकभवन में हथकरघा दिवस पर आयोजित कार्यक्रम को संबोधित करते हुए मुख्यमंत्री योगी


लखनऊ, ०७ अगस्तमासः (हि.स.)। मुख्यमन्त्री योगी-आदित्यनाथः राष्ट्रिय-हस्ततन्तु-दिवस-२०२६ इत्यस्य अवसरे शुक्रवासरे अत्र लोकभवने हस्ततन्तु-उत्पादानां प्रदर्शिनीम् अवलोकितवान् तथा उत्कृष्ट-तन्तुवायान् ‘सन्त-कबीर-राज्यस्तरीय-हस्ततन्तु-पुरस्कारेण’ सम्मानितवान्। मुख्यमन्त्रिणा ‘मुख्यमन्त्री-हस्ततन्तु-शक्तितन्तु-उद्योग-विकास-योजनायाः’ तथा ‘झलकारी-बाई-कोरी-हस्ततन्तु-शक्तितन्तु-विकास-योजनायाः’ लाभार्थिभ्यः आर्थिक-सहायतायाः धनादेशाः वितरिताः।

मुख्यमन्त्रिणा योगी-आदित्यनाथेन स्वीय-सम्बोधने उक्तं यत् उत्तरप्रदेशे एषः सर्वप्रमुखः कुटीर-उद्योगः अस्ति। एतेषां सर्वेषां एमएसएमई-उत्पादानां पञ्जीकरणेन सह पञ्चलक्ष-रूप्यकाणां सुरक्षा-बीमा-कवचम् अपि प्रदत्तम् अस्ति। यदि कस्यचित् दुर्घटना भवति तर्हि तस्मै पञ्चलक्ष-रूप्यकाणि प्राप्तानि भविष्यन्ति। एषा व्यवस्था २०१७ तम-वर्षात् पूर्वमपि भवितव्या आसीत्, किन्तु भ्रातृ-पुत्र-पक्षपाते निमग्नानां तत्कालीन-सर्वकाराणां समीपे तदर्थं समयः कुत्र आसीत्।

योगिना उक्तं यत् येषु विद्यालयेषु निर्धनानां बालकाः पठन्ति स्म, तेषां मूलभूत-शिक्षा-विभागस्य विद्यालयानां अवस्था शोचनीया आसीत्। न शिक्षकः आसीत्, न भवनम् आसीत्। शौचालयस्य पेयजलस्य च व्यवस्था अपि नासीत्। अद्य बालकानां बालिकानां च कृते पृथक्-पृथक् शौचालयाः, पेयजलस्य व्यवस्था च अस्ति। बालकेभ्यः विद्यालय-वेषभूषा, पादत्राणानि, पुटकाः, लेखन-पुस्तिकाः पाठ्यपुस्तकानि च प्रदीयन्ते। एतेषां समाजवादी-पक्षीयानां विकासे किमपि रुचिः नासीत्। या किञ्चित् रुचिः आसीत्, तत्र लुण्ठनम् आरभ्यते स्म। परिवारीयाः जनाः लुण्ठनाय सम्मिलिताः भवन्ति स्म—कः कियत् लुण्ठेत् इति। महिलानां कृते ते स्वयमेव संकटस्य कारणम् अभवन्। अस्मिन् क्षेत्रे ७० प्रतिशतं महिलाः एव कार्यं कुर्वन्ति।

मुख्यमन्त्रिणा योगिना उक्तं यत् अद्य अहं सर्वान् आश्वासयामि यत् एषा द्वि-इञ्जिन-सर्वकारः पूर्णया प्रतिबद्धतया भवतां हितानां संरक्षणाय प्रतिबद्धा अस्ति। अहं विभागं प्रति अस्मिन् विषये वक्ष्यामि यत् अस्माकं हस्तशिल्पिभिः शिल्पिभिश्च निर्मितानां निर्मीयमाणानां च उत्पादानां प्रौद्योगिक्या अभिकल्पेन च सह समन्वयः क्रियताम्। विपणस्य आवश्यकतानुसारं उत्पादानां निर्माणे साहाय्यं प्रदीयताम्। तेन सामान्य-आह्वानं कृतं यत् वयं सर्वे स्वकीयैः शिल्पिभिः निर्मितानि उत्पादानि एव स्वप्रियजनेभ्यः उपहाररूपेण दद्मः।

ततः पूर्वं एमएसएमई-मन्त्रिणा राकेश-सचानः मुख्यमन्त्रिणे हस्ततन्तुना निर्मितां राधा-कृष्णयोः कलाकृतिं प्रदाय उक्तं यत् एषः दिवसः भारतस्य तन्तुवयन-परम्परायाः, स्वदेशी-संस्कृतेः ‘आत्म-निर्भर-भारतस्य’ च संकल्पस्य उत्सवः अस्ति। तेन सूचितं यत् प्रदेशे त्रिलक्षात् अधिकानि हस्ततन्तु-यन्त्राणि सञ्चालितानि सन्ति तथा सर्वकारः तन्तुवायानां आर्थिक-प्राविधिक-सामाजिक-सशक्तीकरणाय निरन्तरं कार्यं कुर्वन् अस्ति। मुख्यमन्त्री-हस्ततन्तु-शक्तितन्तु-उद्योग-विकास-योजनायाः अन्तर्गतं २,४८९ हस्ततन्तु-तन्तुवायानां १,३१५ शक्तितन्तु-तन्तुवायानां च, तथा झलकारी-बाई-कोरी-हस्ततन्तु-शक्तितन्तु-विकास-योजनायाः अन्तर्गतं २,७९६ हस्ततन्तु-तन्तुवायानां १,४६६ शक्तितन्तु-तन्तुवायानां च आर्थिक-सहायता प्रदत्ता अस्ति।

सचानेन उक्तं यत् उत्तरप्रदेश-राज्य-हस्ततन्तु-निगमेन अस्मिन् वर्षे प्रायः ३८ लक्ष-रूप्यकाणां लाभः अर्जितः, यः प्रदेशस्य हस्ततन्तु-क्षेत्रस्य प्रगतेः सूचकः अस्ति। पीएम-मित्र-महत्तन्तु-वस्त्र-उद्यानात् प्रस्तावितेभ्यः सन्त-कबीर-वस्त्र-उद्याने-भ्यश्च वस्त्र-उद्योगाय नूतना गतिः प्राप्स्यते तथा रोजगारस्य अवसराः सृज्यन्ते। हस्ततन्तु-वस्त्र-उद्योग-निदेशा-लयेन उत्तरप्रदेशेन च ‘हैण्डलूम-एक्सपोर्ट-प्रमोशन-काउन्सिल’, ‘टनेरा’ (टाटा-समूहः), बीटीडीसी, ‘इण्टरनेशनल-फैशन-बिजनेस-एक्सचेन्ज-काउन्सिल’ इत्यादिभिः संस्थाभिः सह महत्त्वपूर्णेषु सन्धि-ज्ञापनेषु हस्ताक्षराणि कृतानि। अस्मिन् अवसरे हस्ततन्तु-उत्पादानां विपणनस्य निर्यातस्य च प्रोत्साहनाय विभिन्नाभिः प्रमुखाभिः संस्थाभिः सह सन्धि-ज्ञापनानां आदान-प्रदानम् अपि कृतम्।

Hindusthan Samachar / Divya Ranjan