Enter your Email Address to subscribe to our newsletters


—14 अगस्त तमे दिनांके स्वामीकरपात्रप्राकट्यदिवसे श्रीधर्मसंघे मेलिष्यति सम्मानः
वाराणसी,07 अगस्तमासः (हि.स.)। उत्तरप्रदेशस्य वाराणसीनगरे धर्मसम्राटः स्वामिनः करपात्रीजी महाराजस्य प्राकट्योत्सवस्य अवसरः समुपलक्ष्य दुर्गाकुण्डस्थितेन श्रीधर्मसंघशिक्षामण्डलेन प्रदीयमानयोः प्रतिष्ठितयोः करपात्ररत्न तथा करपात्रगौरव सम्मानयोः घोषणा कृता। धर्मसंघपीठाधीश्वरस्य स्वामी शङ्करदेवचैतन्यब्रह्मचारीमहाराजस्य अध्यक्षतायां सम्पन्नायां चयनसमितेः उपवेशने सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य पूर्वप्राध्यापकः व्याकरणशास्त्रस्य प्रकाण्डविद्वान् आचार्यः पण्डितः गायत्रीप्रसादपाण्डेयः करपात्ररत्न सम्मानेन, तथा करपात्रचिन्तनस्य विशिष्टविद्वान् स्वामीकरपात्रीजीमहाराजस्य कृपापात्रशिष्येषु अन्यतमः डॉ. श्रीप्रकाशमिश्रः करपात्रगौरव सम्मानेन सम्माननार्थं चयनितौ।
शुक्रवासरे धर्मसंघस्य महामन्त्री पण्डितः जगजीतनपाण्डेयः अवदत् यत् धर्मसम्राटः स्वामी करपात्रीजी महाराजस्य प्राकट्यदिने प्रतिवर्षं करपात्रचिन्तनेन सम्बद्धेभ्यः विद्वद्भ्यः एषः सम्मानः प्रदीयते। अस्मिन् वर्षे धर्मसम्राटः स्वामी करपात्रीजी महाराजस्य एकोनविंशत्यधिकशततमस्य (११९) प्राकट्यदिवसस्य अवसरः समुपलक्ष्य आगामिनि १४ अगस्तदिने एताभ्यां विद्वद्भ्यां भव्यसमारोहे सम्मानः प्रदास्यते। तेन उक्तं यत् करपात्ररत्न सम्मानेन चयनितः पण्डितः गायत्रीप्रसादपाण्डेयः करपात्रचरितामृतम् इति ग्रन्थस्य रचयिता अस्ति। तदतिरिक्तं तस्य श्रीमद्भागवतस्य पद्यानुवादः अपि अत्यन्तं प्रसिद्धः अस्ति। तेन द्वादशाधिकग्रन्थानां लेखनं सम्पादनं च कृतम्। तस्मै सम्मानस्वरूपेण सपादलक्षरूप्यकाणि, प्रशस्तिपत्रं, श्रीफलं च प्रदास्यते।
पण्डितः जगजीतनपाण्डेयः अपि अवदत् यत् करपात्रगौरव सम्मानेन चयनितः डॉ. श्रीप्रकाशमिश्रः स्वामी करपात्रीजी महाराजस्य अत्यन्तं कृपापात्रः शिष्यः आसीत् तथा च करपात्रचिन्तनस्य विशिष्टविद्वत्सु अन्यतमः अस्ति। सः दीर्घकालपर्यन्तं धर्मसम्राटः स्वामी करपात्रीजी महाराजस्य लेखनसचिवत्वेन अपि कार्यं कृतवान्। पश्चात् सः हरिश्चन्द्रडिग्रीमहाविद्यालयात् रीडरपदात् सेवानिवृत्तः अभवत्। तस्मै सम्मानस्वरूपेण एकपञ्चाशत्सहस्ररूप्यकाणि, प्रशस्तिपत्रं, श्रीफलं च प्रदास्यते।
Hindusthan Samachar / Dheeraj Maithani