Enter your Email Address to subscribe to our newsletters


ऋषिकेशः, ०७ अगस्तमासः (हि.स.)। भारतीयजनतायुवमोर्चायाः राष्ट्रीयाध्यक्षः तथा बेङ्गलुरु-दक्षिणलोकसभाक्षेत्रस्य सांसदः तेजस्वी-सूर्यः शुक्रवासरे सावन-मासस्य पावनावसरे हरिद्वारस्थे हर की पौड़ी-घट्टे विधिवत् पूजामर्चनं कृत्वा देशस्य प्रदेशस्य च जनानां सुखसमृद्ध्यै कल्याणाय च प्रार्थनां कृतवान्। ततः सः शताधिकैः युवमोर्चाकार्यकर्तृभिः युवभिश्च सह हरिद्वारतः गङ्गाजलं गृहीत्वा कांवड्-यात्रायाः शुभारम्भं कृतवान्। एषा यात्रा ऋषिकेशस्य वीरभद्रस्थले सम्पन्ना अभवत्।
अस्मिन् अवसरे तेजस्वी-सूर्यः प्रदेशवासिभ्यः सावनमासस्य शुभकामनाः प्रदाय अवदत् यत् कांवड्-यात्रा भारतीयसंस्कृतेः, सनातनपरम्परायाः, अटूटश्रद्धायाश्च जीवन्तं प्रतीकम् अस्ति। सः अवदत् यत् यूनां विशालसंख्यायां सहभागिता इदं दर्शयति यत् नववंश: स्वस्य सांस्कृतिकपरम्परां, धार्मिकपरम्पराः आध्यात्मिकमूल्यानि च पूर्णनिष्ठया समर्पणभावेन च अनुसरति।
सः अवदत् यत् कांवड्-यात्रा केवलं धार्मिकश्रद्धायाः पर्व नास्ति, अपितु सामाजिकसमरसतां, भ्रातृत्वभावं, ऐक्यभावनां च सुदृढीकर्तुं प्रभावशाली माध्यमम् अपि अस्ति।
भाजयुमो-सङ्घटनस्य राष्ट्रीय-उपाध्यक्षः नेहा-जोशी तेजस्वी-सूर्यस्य कांवड्-यात्रां ऐतिहासिकीं वर्णयित्वा अवदत् यत् अनेन युवभ्यः सकारात्मकः सन्देशः प्राप्तः। सा अवदत् यत् यस्य देशस्य यूनां समीपे आध्यात्मिकतायाः तथा कृत्रिमबुद्धेः उभयोः शक्तिः भविष्यति, सः देशः प्रत्येकस्मिन् क्षेत्रे नूतनान् कीर्तिमान् स्थापयितुं समर्थः भविष्यति।
यात्रायां भाजपायाः प्रदेशमन्त्री नेहा-जोशी, भाजयुमो-सङ्घटनस्य प्रदेशाध्यक्षः विपुल-मैन्दोली, राष्ट्रीय-उपाध्यक्षः अभिनव-सिंहः, राष्ट्रीयकार्यकारिण्याः सदस्यः रोहन-सहगलः, दीप-कोश्यारी, मुलायम-रावतः इत्यादयः बहवः दल-पदाधिकारिणः, कार्यकर्तारः युवानश्च सम्मिलिताः अभवन्।
Hindusthan Samachar / Divya Ranjan