Enter your Email Address to subscribe to our newsletters

कोलकाता, ०७ अगस्तमासः (हि.स.)। वरिष्ठः बॉलिवुड्-अभिनेता भाजपा-नेता च मिथुन-चक्रवर्ती हस्तस्य शल्यक्रियायै कोलकातानगरस्य ई.एम्. बाइपास-मार्गस्थिते निजीय-चिकित्सालये प्रवेशितः अस्ति। गुरुवासरस्य रात्रौ विलम्बेन तं चिकित्सालयम् आनीतम्, यत्र विशेषज्ञ-चिकित्सकैः तस्य हस्तस्य सफला शल्यक्रिया कृता। चिकित्सालय-सूत्राणाम् अनुसारं शल्यक्रियायाः अनन्तरं तस्य स्वास्थ्यावस्था पूर्णतया स्थिरा अस्ति तथा सः शीघ्रं स्वस्थः भवति।
शुक्रवासरे प्रातः मुख्यमन्त्री शुभेन्दु-अधिकारी चिकित्सालयं गत्वा मिथुन-चक्रवर्तिना सह मिलित्वा तस्य स्वास्थ्यस्य विषये जानकारीं प्राप्तवान्। चिकित्सालयात् बहिः आगत्य मुख्यमन्त्रिणा पत्रकारैः सह वार्तालापे उक्तं यत् मिथुन-चक्रवर्ती पूर्णतया स्वस्थः अस्ति तथा तस्य हस्तस्य शल्यक्रिया सफलतापूर्वकं सम्पन्ना अभवत्। तेन उक्तं यत् चिकित्सकैः तस्य स्वास्थ्यावस्था सामान्येति कथिता अस्ति तथा चिन्तायाः किमपि कारणं नास्ति।
मुख्यमन्त्रिणा उक्तं यत् यदि स्वास्थ्ये एवं सुधारः निरन्तरं भवति तर्हि मिथुन-चक्रवर्ती शुक्रवासरस्य सायंकालपर्यन्तं चिकित्सालयात् विमोचितः भविष्यति। ततः सः न्यू-टाउन-स्थितं स्वनिवासं गमिष्यति तथा चिकित्सकानां परामर्शानुसारं कतिपय-दिनानि विश्रामं करिष्यति।
चिकित्सालय-सूत्राणाम् अनुसारं शल्यक्रियायाः अनन्तरं चिकित्सकानां दलं निरन्तरं तस्य निरीक्षणं करोति। सर्वाणि आवश्यकानि चिकित्सकीय-परीक्षणानि सामान्याः प्राप्तानि सन्ति तथा तस्य स्वास्थ्यलाभः सन्तोषजनकः अस्ति। चिकित्सकानां कथनम् अस्ति यत् कतिपय-समयं यावत् तेन नियमित-अनुवीक्षणं करणीयम् तथा आवश्यकाः सावधानताः अपि पालनीयाः भविष्यन्ति।
मिथुन-चक्रवर्तिनः चिकित्सालये प्रवेशस्य वार्ता प्रकाशितायाः अनन्तरं तस्य प्रशंसकेषु शुभचिन्तकेषु च चिन्तायाः स्थितिः उत्पन्ना आसीत्। तथापि मुख्यमन्त्रिणः चिकित्सालय-सूत्राणां च पक्षतः तस्य स्वस्थतायाः सूचना प्राप्तानन्तरं प्रशंसकैः सुख: अनुभूत:।
Hindusthan Samachar / Divya Ranjan