Enter your Email Address to subscribe to our newsletters

कोलकाता, ०७ अगस्तमासः (हि.स.)। पश्चिमबङ्ग-सर्वकारेण मध्याह्न-भोजन-योजनायां लाभार्थिनां संख्या अतिरञ्जित-रूपेण प्रदर्शितस्य शिकायतानां गम्भीरतया संज्ञानं स्वीकृत्य राज्यस्य सर्वकारीय-विद्यालयेषु आकस्मिक-निरीक्षणानि कारयितुं निर्णयः कृतः। नवान्नतः प्राप्तानां निर्देशानाम् अनन्तरं विभिन्न-जनपद-प्रशासनैः विद्यालयेषु वास्तविक-छात्रसंख्यायाः मध्याह्न-भोजन-पटले पञ्जीकृतायाः छात्रसंख्यायाः च मिलानं करिष्यते।
सर्वकारीय-सूत्राणाम् अनुसारं यदि कस्मिंश्चित् विद्यालये पटले पञ्जीकृता छात्रसंख्या वास्तविक-उपस्थितेः अधिका प्राप्यते, तर्हि सम्बन्धित-विद्यालय-प्रबन्धनाय, प्राचार्याय अथवा प्रधानाध्या-पकाय प्रथमं कारण-दर्शकं पत्रं प्रदास्यते। सन्तोषजनकं उत्तरं न प्राप्ते वैधानिक-प्रावधानानुसारं अनुशासनात्मक-कार्यवाही करिष्यते।
सूत्राणां कथनम् अस्ति यत् दीर्घकालात् कतिपयैः सर्वकारीय-विद्यालयैः मध्याह्न-भोजन-पटले छात्रसंख्या वर्धयित्वा पञ्जीकृता इति शिकायताः प्राप्यन्ते स्म। अन्वेषणस्य समये कतिपयेषु विद्यालयेषु एतादृश्यः अनियमितताः अपि प्रकाशं गताः, येषां विरुद्धं कार्यवाही प्रारब्धा अस्ति।
पूर्व-मेदिनीपुर-जनपदस्य पटाशपुर-१ विकासखण्डस्य एकस्मिन् सर्वकारीय-विद्यालये अन्वेषणस्य समये महदन्तरं प्रकाशम् आगतम्। अत्र मध्याह्न-भोजन-पटले पञ्जीकृतानां छात्राणां संख्या वास्तविक-संख्यायाः प्रायः दशगुणिता अधिका प्राप्ता। सूचनां प्राप्य सम्बन्धितेन खण्ड-विकासाधिकारिणा आकस्मिक-निरीक्षणं कृतम्, ततः विद्यालयस्य प्रधानाध्यापकाय कारण-दर्शकं पत्रं प्रदाय विभागीय-कार्यवाही प्रारब्धा।
उल्लेखनीयं यत् २०२२ तमे वर्षे अप्रैल-मासतः सितम्बर-मासपर्यन्तं केन्द्र-सर्वकारस्य शिक्षा-मन्त्रालयस्य संयुक्त-समीक्षा-समित्या तत्कालीन-राज्य-सर्वकारस्य विरुद्धं मध्याह्न-भोजन-योजनायाः लाभार्थिनां संख्या वर्धयित्वा प्रदर्शितेति आरोपः कृतः आसीत्। समित्या शतकोटि-रूप्यकाणाम् अधिकस्य वित्तीय-अनियमिततायाः आशङ्का अपि व्यक्ता आसीत्।
तदतिरिक्तं पूर्वतन-सर्वकारस्य कार्यकाले अनेकवारं मध्याह्न-भोजनस्य गुणवत्तां प्रति अपि प्रश्नाः उत्थापिताः आसन्। कतिपयेषु सर्वकारीय-विद्यालयेषु छात्रेभ्यः केवलं तण्डुलं लवणं च प्रदास्यते इत्यस्य सूचना: अपि प्रकाशं गताः आसन्।
सूत्राणाम् अनुसारं वर्तमान-राज्य-सर्वकारस्य उद्देश्यं योजनायां विद्यमानाः सर्वाः अनियमितताः समाप्तुं तथा दोषिभ्यः विरुद्धं कठोर-कार्यवाही सुनिश्चितं कर्तुम् अस्ति।
Hindusthan Samachar / Divya Ranjan