Enter your Email Address to subscribe to our newsletters

शिमला, 07 अगस्तमासः (हि.स.)।
लोकनिर्माणनगरविकासमन्त्रिणा विक्रमादित्यसिंहेन केन्द्रीयमन्त्रिणा मनोहरलालखट्टरेण सह नगरविकासपरियोजनाविषये विचारविमर्शः कृतः
लोकनिर्माणनगरविकासमन्त्री विक्रमादित्यसिंहः शुक्रवासरे नवदिल्लीनगरे केन्द्रीयऊर्जामन्त्रिणा, आवासननगरकार्यविभागस्य मन्त्रिणा मनोहरलालखट्टरेण सह शिष्टाचारभेटीं कृत्वा प्रदेशस्य विविधनगरविकासपरियोजनानां आधारभूतसंरचनाविस्तारसम्बद्धविषयेषु विस्तृतविचारविमर्शम् अकरोत्।
बैठकायां विक्रमादित्यसिंहः राज्यस्य नगरेषु वर्धमानजनदबावस्य न्यूनीकरणार्थं नूतननगरविकासाय वित्तीयसाहाय्यं, प्राविधिकसहयोगं तथा योजनानिर्माणसम्बद्धां रूपरेखां प्रदातुम् आग्रहम् अकरोत्। तेन चण्डीगढनगरस्य आदर्शमनुसृत्य हिमाचलप्रदेशस्य चण्डीगढपञ्चकूलयोः सीमासमीपे प्रस्तावितस्य नूतननगरस्य कृते सहकारी-आधारभूतसंरचनाविकासस्य आवश्यकतायाः उपरि विशेषबलं न्यधात्।
अस्य प्रत्युत्तरे केन्द्रीयमन्त्री मनोहरलालखट्टरः राज्यसरकारं विस्तृतपरियोजनाप्रतिवेदनम् (डीपीआर) समर्पयितुम् उक्तवान् तथा प्रस्तावस्य विषये सकारात्मकदृष्ट्या विचारः करिष्यते इति आश्वासनम् अदात्।
विक्रमादित्यसिंहेन केन्द्रीयमन्त्रिणे निवेदितं यत् अर्बन् चैलेञ्ज् फण्ड् इत्यस्य अन्तर्गतं १२०० कोटिरूप्यकाणां परियोजनाः वित्तीयस्वीकृतेः कृते समर्पिताः सन्ति। तेन तासां परियोजनानां शीघ्रस्वीकृत्यर्थम् आग्रहः कृतः। एतदतिरिक्तं अमृतयोजना अन्तर्गतं अवशिष्टानां ६४.४५ कोटिरूप्यकाणां राशेः शीघ्रविमोचनस्य अनुरोधः अपि कृतः, येन प्रदेशे प्रवर्तमानाः नगरविकासपरियोजनाः निर्विघ्नरूपेण सञ्चलितुं शक्नुयुः।
तेन स्वच्छभारतमिशन् २.० अन्तर्गतस्य प्रयुक्तजलव्यवस्थापनघटकस्य विषयमपि उत्थापितवान्। तेन उक्तं यत् प्रदेशस्य ७६ नगरीयस्थानीयनिकायेषु केवलं ३१ निकायाः एव अस्मिन् कार्यक्रमे समाविष्टाः सन्ति। अतः अवशिष्टानां नगरीयनिकायानां कृते समर्पितानाम् अतिरिक्तपरियोजनानामपि स्वीकृतिं प्रदातुं आवश्यकवित्तीयसाहाय्यं च उपलब्धं कर्तुम् आग्रहः कृतः।
लोकनिर्माणनगरविकासमन्त्री नादौन, मनाली, डलहौजी तथा रामपुरनगरपरिषद्सु प्रस्तावितानां स्ट्रीट् फूड् हब् परियोजनानां अन्तिमविस्तृतपरियोजनाप्रतिवेदनस्य उपरि शीघ्रकार्यवाहीं कर्तुमपि अनुरोधम् अकरोत्।
केन्द्रीयमन्त्री मनोहरलालखट्टरः राज्यसर्वकाराय नगरविकाससम्बद्धयोजनासु सर्वतोभावेन सहयोगं प्रदास्यते इति आश्वासनम् अदात्। तेन विक्रमादित्यसिंहेन प्रदत्तं शिमलाधर्मशालानगरयोः भ्रमणनिमन्त्रणमपि स्वीकृत्य निकटभविष्ये उभयनगरयोः भ्रमणाय स्वसहमतिं प्रकटितवान्।
---------------
Hindusthan Samachar / Dheeraj Maithani