श्रीराम मंदिरे गुंजितो विष्णुसहस्रनामपाठः
अयोध्या, 08 अगस्तमासः (हि.स.)। श्रीरामजन्मभूमिमन्दिरस्य यज्ञशालायां विष्णुसहस्रनामसत्सङ्गस्य आयोजनम् शनिवासरे श्रीरामजन्मभूमिमन्दिरस्य यज्ञशालायां ग्लोबलविष्णुसहस्रनामसत्सङ्गफेडरेशन-बेंगलूरुसंस्थायाः साधकैः साधिकाभिश्च विष्णुसहस्रनामस्तोत्रस्य प
श्रीराम मंदिर में गुंजायमान हुआ विष्णु सहस्रनाम पाठ


अयोध्या, 08 अगस्तमासः (हि.स.)।

श्रीरामजन्मभूमिमन्दिरस्य यज्ञशालायां विष्णुसहस्रनामसत्सङ्गस्य आयोजनम्

शनिवासरे श्रीरामजन्मभूमिमन्दिरस्य यज्ञशालायां ग्लोबलविष्णुसहस्रनामसत्सङ्गफेडरेशन-बेंगलूरुसंस्थायाः साधकैः साधिकाभिश्च विष्णुसहस्रनामस्तोत्रस्य पाठः कृतः।

श्रीरामजन्मभूमितीर्थक्षेत्रस्य पक्षतः आयोजनप्रभारिणा शैलेन्द्रशुक्लेन उक्तं यत् श्रीमतीमङ्गलायाः नेतृत्वे आगता साधकसाधकानां टोली चतुःघण्टापर्यन्तं विष्णुसहस्रनामस्तोत्रस्य पाठं कृतवती। पाठस्य अनन्तरं तेन गणेन भगवान् श्रीरामं सहित्वा मन्दिरपरिसरे प्रतिष्ठितानां सर्वेषां देवीदेवानां दर्शनं पूजनं च कृतम्।

Hindusthan Samachar / Dheeraj Maithani