बाबा महाकालस्य आलौकिकः शृंगारः, सांसद मनोज तिवारी अकरोत् जलाभिषेकम्
उज्जैनम्, 08 अगस्तमासः (हि.स.)।मध्यप्रदेशस्य उज्जयिनीनगरे स्थिते विश्वप्रसिद्धे ज्योतिर्लिङ्गे भगवतः महाकालेश्वरस्य मन्दिरे श्रावणकृष्णपक्षस्य दशमीतिथौ शनिवासरे प्रातः भस्मारत्याः समये बाबा महाकालस्य अलौकिकं शृङ्गारं कृतम्। तत्रैव दिल्लीस्य सांसदः
बाबा महाकाल के दर्शन के बाद महाकालेश्वर मंदिर में सपरिवार सांसद मनोज तिवरी


बाबा महाकाल का भस्म आरती में हुआ श्रृंगार


उज्जैनम्, 08 अगस्तमासः (हि.स.)।मध्यप्रदेशस्य उज्जयिनीनगरे स्थिते विश्वप्रसिद्धे ज्योतिर्लिङ्गे भगवतः महाकालेश्वरस्य मन्दिरे श्रावणकृष्णपक्षस्य दशमीतिथौ शनिवासरे प्रातः भस्मारत्याः समये बाबा महाकालस्य अलौकिकं शृङ्गारं कृतम्। तत्रैव दिल्लीस्य सांसदः मनोज तिवारी अपि भगवतः महाकालेश्वरस्य दर्शनं कृत्वा जलाभिषेकं कृतवान्।

भाजपायाः सांसदः मनोज तिवारी शनिवासरे प्रातः सपरिवारम् उज्जयिनीम् आगतवान् तथा विश्वप्रसिद्धस्य ज्योतिर्लिङ्गस्य भगवतः महाकालेश्वरस्य दर्शनं कृत्वा विधिविधानपूर्वकं पूजनार्चनं कृतवान्। अस्मिन् अवसरे तेन सह उज्जयिनीस्य सांसदः अनिल फिरोजिया अपि विशेषरूपेण उपस्थितः आसीत्। उभौ नेतारौ बाबा महाकालं प्रति देशस्य निरन्तरप्रगतेः, सुखसमृद्धेः तथा देशवासिनां कल्याणस्य च कृते प्रार्थनां कृतवन्तौ।

भाजपानेता मनोज तिवारी बाबा महाकालस्य दिव्यदर्शनानन्तरं माध्यमप्रतिनिधिभिः सह वार्तालापे कांवड़यात्रिकाणां प्रति अनर्गलटिप्पणीं कुर्वतः जनान् प्रति तीव्रं प्रतिवचनं दत्त्वा अवदत् यत् धार्मिकपरम्पराणां शिवभक्तानां च विरोधं कुर्वन्तः जनाः राक्षसीप्रवृत्तियुक्ताः सन्ति। सः स्पष्टतया अवदत् यत् प्रत्येकं व्यक्तिं स्वकीयस्य पन्थस्य पालनस्य अधिकारः अस्ति, किन्तु अन्यस्य श्रद्धायाः अनादरं कर्तुं अधिकारः कस्यापि नास्ति। सः सर्वान् परस्परस्य धार्मिकमान्यतानां सम्मानं कर्तुम् आह्वानं कृतवान्।

भाजपासांसदः तिवारी स्वकीयम् अनुभवं साझा कुर्वन् अवदत् यत् मन्दिरे परिवारेण सह जलार्पणं कृत्वा भस्मारत्याः दिव्यतायाः अनुभवनम् अत्यन्तम् अलौकिकम् आसीत्। बाबा महाकालस्य दरबारे प्रार्थनां कृत्वा मनः असीमशान्त्या अलौकिकशक्त्या च परिपूर्णम् अभवत्।

अस्मात् पूर्वं महाकालेश्वरमन्दिरे शनिवासरे प्रातःकाले परम्परानुसारं भस्मारती सम्पन्ना। प्रातः चतुर्वादने मन्दिरस्य कपाटेषु उद्घाटितेषु सति पण्डितैः पुरोहितैश्च गर्भगृहे प्रतिष्ठितानां सर्वेषां देवीदेवानां प्रतिमानां पूजनं कृतम्। तदनन्तरं भगवतः महाकालस्य जलाभिषेकं कृत्वा दुग्धेन, दध्ना, घृतेन, शर्करया तथा फलरसैश्च निर्मितेन पञ्चामृतेन पूजनं कृतम्।

महाकालेश्वरमन्दिरस्य पुजारी पण्डितः महेश शर्मा अवदत् यत् पूजनस्य समये प्रथमं घण्टालं वादयित्वा हरिओमस्य जलम् अर्पितम्। पुजारिभिः पुरोहितैश्च बाबा महाकालस्य भव्यः शृङ्गारः कृतः। तदनन्तरं बाबा महाकालाय रजतमयम् ॐचिह्नं, बिल्वपत्रमुकुटं तथा रुद्राक्षमालां धारयित्वा आकर्षकः शृङ्गारः कृतः। भगवतः मस्तके त्रिपुण्ड्रं त्रिशूलं च अलङ्कृतम्। सहैव डमरुकं तथा शेषनागस्य रजतमुकुटं, रजतमयी मुण्डमाला, रुद्राक्षमाला तथा सुगन्धितपुष्पाणां माला च अर्पिता।

अस्मिन् अवसरे बाबा महाकालाय फलानां मिष्टान्नानां च नैवेद्यं समर्पितम्। सः अवदत् यत् कर्पूरारत्याः अनन्तरं बाबा महाकालाय नूतनमुकुटं धारितम्। तदनन्तरं महानिर्वाणी-अखाडस्य पक्षतः भगवतः महाकालस्य शिवलिङ्गे भस्म अर्पितम्। झाञ्झमञ्जीरवाद्यैः, ढोलानकदुन्दुभिभिः तथा शङ्खनादेन सह भस्मारती सम्पन्ना।

धार्मिकमान्यतानुसारं भस्मार्पणानन्तरं भगवान् महाकालः निराकारस्वरूपात् साकारस्वरूपं प्राप्य भक्तेभ्यः दर्शनं ददाति। अस्मिन् समये भस्मारत्यां सम्मिलिताः श्रद्धालवः बाबा महाकालस्य आशीर्वादं प्राप्तवन्तः। सम्पूर्णं मन्दिरपरिसरं बाबा महाकालस्य जयघोषैः गुञ्जितम् अभवत्।

---------------

Hindusthan Samachar / Dheeraj Maithani