Enter your Email Address to subscribe to our newsletters

— भोलेनाथस्य भक्तौ लीनः भूत्वा झाञ्झं वादितवान्, श्रद्धालुभिः सह संवादं कृतवान्
भोपालम्, ०७ अगस्तमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनः यादवः शुक्रवासरे रात्रौ उज्जयिनी-प्रवासस्य अवधौ श्रावणस्य पवित्रे मासे श्रीमहा-कालेश्वर-मन्दिरस्य गर्भगृहे प्रविश्य भगवान् श्रीमहाकालं श्रीनन्दिं च पूजयित्वा अर्चनां कृतवान्। ततः सः भगवत: श्रीमहाकालेश्वरस्य शयन-आरार्तिक्यां सम्मिलितः भूत्वा भगवतः भक्तौ लीनः सन् झाञ्झं वादितवान्।
मुख्यमन्त्री डॉ. यादवः मन्दिरे समागतैः श्रद्धालुभिः सह संवादं कृत्वा मन्दिरस्य दर्शन-व्यवस्थायाः विषये सूचनां प्राप्तवान्। श्रीमहाकालेश्वर-मन्दिर-प्रबन्ध-समित्याः अध्यक्षः उज्जयिनी-उपायुक्त: च रौशनकुमारसिंहः तथा समितेः प्रशासकः प्रथमकौशिकः मुख्यमन्त्रिणे डॉ. यादवाय भगवान् श्रीमहाकालेश्वरस्य दुपट्टा इति परिधाय स्मृतिचिह्नं प्रदाय सम्मानितवन्तौ। अस्मिन् अवसरे उज्जयिनी-विकास-प्राधिकरणस्य अध्यक्षः रवि सोलङ्की, उपाध्यक्षः मुकेश यादवः, सञ्जय अग्रवालः, सम्भागायुक्तः आशीषसिंहः, नगर-निगम-आयुक्तः अभिलाषमिश्रः, जनपद-पञ्चायत्-प्रधान-कार्यपालनाधिकारी श्रेयांस् कूमट् तथा अन्ये अधिकारिणः उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan