Enter your Email Address to subscribe to our newsletters

दूरकूर्दने द्वौ भारतीयौ पदकस्य स्पर्धायाम्
यूजीन, ओरेगन, ८ अगस्तमासः (हि.स.)। भारतस्य पूजा शुक्रवासरे विश्व-अण्डर-२०-एथलेटिक्स-चैम्पियनशिप्-स्पर्धायाः तृतीये दिने महिलानां उच्चकूर्दनस्पर्धायाः अन्तिमचक्रे स्थानं प्राप्तवती। राष्ट्रीयकीर्तिमती पूजा १.७९ मीटर् इति सर्वोत्तमकूर्दनेन पदकस्पर्धायां प्रवेशं प्राप्तवती।
प्रत्यक्ष-योग्यतायै १.८४ मीटर् इति मानकं निर्धारितम् आसीत्, किन्तु काचिदपि क्रीडिका तत् मानकं नातिक्रामितवती। अतः १.७९ मीटर् इति सर्वोत्तमकूर्दनं प्राप्तवत्यः सर्वाः द्वादश क्रीडिकाः अन्तिमचक्रे प्रविष्टाः।
हरियाणाप्रदेशस्य एषा युवा क्रीडिका अस्मिन्नेव वर्षे एशियाई-अण्डर-२०-एथलेटिक्स-चैम्पियनशिप्-स्पर्धायां १.९३ मीटर् इति कूर्दनेन चतुर्दशवर्षपुरातनं वरिष्ठ-राष्ट्रीयकीर्तिमानं भग्नं कृतवती। एतत् कीर्तिमानं पूर्वं सहानाकुमार्याः नाम्नि आसीत्। पूजया तस्मिन् प्रतियोगितायां स्वर्णपदकमपि विजितम्।
दूरकूर्दने द्वौ भारतीयौ अन्तिमचक्रे
पुरुषाणां दूरकूर्दनस्पर्धायां भारतस्य शाहनवाजखानः तथा आर.सी. जितिन-अर्जुनन् अपि अन्तिमचक्रे स्थानं प्राप्तवन्तौ। उभौ क्रीडकौ प्रत्यक्ष-योग्यतायै निर्धारितं ७.७५ मीटर् इति मानकं प्राप्तुं न अशक्नुताम्, किन्तु शीर्ष-द्वादशसु स्थानं प्राप्तत्वात् पदकस्पर्धायां प्रविष्टवन्तौ।
शाहनवाजेन ७.७३ मीटर् इति सर्वोत्तमकूर्दनं कृत्वा समूह-क मध्ये चतुर्थं तथा समग्ररूपेण पञ्चमं स्थानं प्राप्तम्। अपरतः जितिन-अर्जुनेन ७.५७ मीटर् इति कूर्दनेन समूह-क मध्ये सप्तमं तथा समग्ररूपेण द्वादशं स्थानं प्राप्तम्।
नियमानुसारं ७.७५ मीटर् इति प्रत्यक्ष-योग्यतामानकं प्राप्तवन्तः अथवा उभयोः समूहयोः समग्ररूपेण शीर्ष-द्वादशसु स्थानेषु स्थिताः क्रीडकाः अन्तिमचक्राय योग्याः भवन्ति।
महिलानां कुन्तक्षेपणस्पर्धायां भारतस्य पूनमः अन्तिमचक्रे स्थानं प्राप्तुं अल्पेन अन्तरेण वञ्चिता। तस्याः सर्वोत्तमः प्रयासः ४८.८१ मीटर् आसीत्, येन सा समग्ररूपेण त्रयोदशे स्थाने स्थिता।
अन्तिमचक्रे प्रवेशाय निर्धारितं प्रत्यक्ष-योग्यतामानकं ५२.५० मीटर् आसीत्। अन्तिमं योग्यतास्थानं प्राप्तवती नीदरलैण्ड्देशस्य जोली-बारवेल्ड्ट् ४९.०८ मीटर् इति सर्वोत्तमप्रयासेन पूनमाम् अतिक्रम्य अन्तिमचक्रे प्रवेशं प्राप्तवती।
Hindusthan Samachar / Dheeraj Maithani