Enter your Email Address to subscribe to our newsletters

गोरखपुरम्, ०९ अगस्तमासः (हि.स.)। व्यापारिणां सम्मानस्य, सुरक्षायाः अधिकाराणां च संघर्षाय अधिकं बलं प्रदातुं अखिलभारतीय-उद्योग-व्यापारमण्डलेन सङ्गठनस्य विस्तारं विपण्यस्तरपर्यन्तं कर्तुं रणनीतिः सज्जीकृता अस्ति। रविवासरे गोरखपुरस्य सिविल-लाइन्स्-स्थिते वैष्णवी-लॉन-स्थले आयोजितायां गोरक्षक्षेत्रीयसभायां गोरक्षक्षेत्रस्य द्वादशभ्यः जनपदेभ्यः आगताः पदाधिकारिणः व्यापारिणश्च सम्मिलिताः। अस्यां सभायां अग्रिमे०३ सितम्बरदिनाङ्के लखनऊ-नगरे स्थिते डॉ. भीमराव-आम्बेडकर-अन्ताराष्ट्रियकेन्द्रे प्रस्तावितस्य प्रदेश-स्तरीयव्यापारिमहासम्मेलनस्य सिद्धताविषये विस्तरेण विचारविमर्शः कृतः।
सभायां सङ्गठनस्य राष्ट्रीयाध्यक्षः सन्दीप-बंसलः अवदत् यत् विगतेषु ३३ वर्षेषु अखिलभारतीय-उद्योग-व्यापार-मण्डलं व्यापारिणां सम्मानस्य, सुरक्षायाः अधिकाराणां च कृते निरन्तरं संघर्षं कुर्वत् अस्ति। व्यापारिसमाजस्य सर्वाधिकं बलं तस्य एकतायाम् अस्ति। यदि प्रत्येकं विपण्यं तथा व्यापारिक-प्रतिष्ठानं सङ्गठनेन सह सम्बध्येत, तर्हि व्यापारिणां समस्यासु समाधानं अधिकप्रभाविरूपेण कर्तुं शक्यते। सः अवदत् यत् सितम्बरमासस्य तृतीये दिनाङ्के लखनऊ-नगरे आयोज्यमानं महासम्मेलनं व्यापारिकहितानां दृष्ट्या अत्यन्तं महत्त्वपूर्णम् अस्ति।
गेट्-पास-व्यवस्थायाः विषयः उत्थापितः, आश्वासनं प्राप्तम्
सन्दीप-बंसलेन मण्डीसमितेः पक्षतः जुलाईमासस्य षष्ठदिनाङ्कात् प्रवर्तितायाः गेट्-पास-निरीक्षणव्यवस्थायाः अपि उल्लेखः कृतः। सः अवदत् यत् अस्याः व्यवस्थायाः कारणेन व्यापारिणः कठिनतां सम्मुखीकुर्वन्ति स्म। सङ्गठनेन शासनस्तरे समस्यां दृढतया उत्थापिता, ततः सम्बन्धितमन्त्रिणा व्यवस्थां प्रत्याहर्तुं निर्देशाः प्रदत्ताः।
प्रदेशाध्यक्षः रिपन्-कंसलः अवदत् यत् व्यापारिसमाजस्य एकतैव सङ्गठनस्य सर्वाधिकं बलम् अस्ति। वरिष्ठप्रदेश-उपाध्यक्षः उपेन्द्रनाथ-त्रिपाठी विपण्यस्तर-पर्यन्तं सङ्गठनं सक्रियतया सुदृढं च कर्तुं बलं दत्तवान्। जनपदाध्यक्षः आलोक-चौरसियाः अवदत् यत् गोरखपुरस्य प्रत्येकस्मिन् विपण्ये व्यापारिकप्रतिष्ठाने च सङ्गठनस्य परिचयं सुदृढं करिष्यते। महानगराध्यक्षः जितेन्द्र-कुमार-शुक्लः तथा महानगर-महामन्त्री डॉ. भोलेन्द्र-नारायण-दूबे च सङ्गठनं व्यापारिणां सम्मानस्य, सुरक्षायाः अधिकाराणां च सशक्तं स्वरम् इति अवदताम्।
कार्यक्रमस्य प्रारम्भे गोरखपुर-महानगर-एककस्य पक्षतः राष्ट्रियाध्यक्षस्य सन्दीप-बंसलस्य, प्रदेशाध्यक्षस्य रिपन्-कंसलस्य, वरिष्ठप्रदेशोपाध्यक्षस्य उपेन्द्रनाथ-त्रिपाठिनः, युवाप्रकोष्ठस्य प्रदेशाध्यक्षस्य अतुल-गुप्तस्य तथा महिलामोर्चायाः प्रदेशाध्यक्षया अनीता-जायसवाल: इत्यनया सह अन्येषां अतिथीनां माल्यार्पणेन अङ्गवस्त्रप्रदानेन च स्वागतं कृतम्। सभायां प्रदेशकार्यसमित्याः सदस्यः बलराम-अग्रवालः, संरक्षकः योगेन्द्रनाथ-दूबे, युवाजिलाध्यक्षः अब्दुल-मेराज-खानः, अशोक-सिंहः, रोहित-सार्राफः, रामसेवक-सार्राफः, विक्की-कुकरेजा, सचिन्द्रनाथ-पाण्डेयः, सञ्जय-मिश्रः, अमित-शिवाजी, शैलेन्द्र-पटवा, अनिल-पटवा, मनोज-पटवा, विनोद-चौधरी, राजीव-पाण्डेयः, नम्रता-श्रीवास्तवा, अनुराधा-गुप्ता इत्यादयः बहवः पदाधिकारिणः व्यापारिणश्च उपस्थिताः आसन्।
Hindusthan Samachar / अंशु गुप्ता