असमस्य मुख्यमंत्री जलप्रलयेन प्रभावितः अरुणोदय लाभार्थिनां साहाय्यं जनानां सहयोगः कृतः
गुवाहाटी, 09 अगस्तमासः (हि.स.)। असमस्य मुख्यमन्त्री डा हिमन्तबिस्वसरमा रविवासरे उक्तवान् यत् अरुणोदययोजनया राज्यस्य लक्षशः मातॄणां भगिनीनां च मुखेषु स्मितं प्रादुर्भूतम् अस्ति। सः बाढपीडितपरिवाराणां सहायतार्थम् अरुणोदययोजनायाः लाभार्थिभिः कृतस्य
The image shared by Assam CM Dr Himanta Biswa Sarma.


गुवाहाटी, 09 अगस्तमासः (हि.स.)।

असमस्य मुख्यमन्त्री डा हिमन्तबिस्वसरमा रविवासरे उक्तवान् यत् अरुणोदययोजनया राज्यस्य लक्षशः मातॄणां भगिनीनां च मुखेषु स्मितं प्रादुर्भूतम् अस्ति। सः बाढपीडितपरिवाराणां सहायतार्थम् अरुणोदययोजनायाः लाभार्थिभिः कृतस्य योगदानस्य अपि प्रशंसाम् अकरोत्।

मुख्यमन्त्री सामाजिकमाध्यमे प्रकाशिते सन्देशे उक्तवान् यत् गतस्य अगस्तमासस्य प्रथमदिनाङ्के सप्तत्रिंशतिलक्षाधिकानां अरुणोदययोजनायाः लाभार्थिनां बैंकखातेषु योजनायाः धनराशिः निक्षिप्ता। सः अवदत् यत् लाभार्थिभ्यः बाढपीडितजनानां सहायतार्थम् अतिरिक्तं द्वादशशतपञ्चाशत् रूप्यकाणां योगदानं प्रदत्तम्।

सः उक्तवान् यत् स्वकीयावश्यकतायै प्राप्तायां धनराशौ संकटग्रस्तपरिवाराणां सहायतार्थं कृतमिदं योगदानं बहूनां बाढपीडितपरिवाराणां कृते आश्रयः अभवत्।

डा सरमा बाढपीडितेभ्यः भ्रातृभ्यः भगिनीभ्यश्च प्रदर्शितायाः संवेदनशीलतायाः उदारतायाश्च कृते अरुणोदययोजनायाः प्रत्येकस्याः लाभार्थिनीमातुः भगिन्याश्च कृतज्ञतां प्रकटितवान्।

-----------

Hindusthan Samachar / Dheeraj Maithani