Enter your Email Address to subscribe to our newsletters

भोपालम्, ०९ अगस्तमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः स्वातन्त्र्यदिवसस्य पावनपर्वणः उपलक्ष्ये रविवासरे मुख्यमन्त्रिनिवासे राष्ट्रध्वजं त्रिरङ्गम् उत्तोल्य प्रदेशव्यापिनः ‘हर घर तिरंगा’ अभियानस्य औपचारिकं शुभारम्भं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री प्रदेशवासिभ्यः शुभकामनाः प्रदाय सर्वेभ्यः स्वस्वगृहेषु त्रिरङ्गध्वजम् उत्तोलयितुं च आह्वानं कृतवान्। अस्मिन् अवसरे सम्बन्धिताः अधिकारिणः गणमान्य-नागरिकाश्च उपस्थिताः आसन्।
मुख्यमन्त्री डॉ. यादवः प्रदेशस्य सर्वेभ्यः नागरिकेभ्यः, युवभ्यः, सामाजिक-सङ्गठनेभ्यश्च आग्रहं कृतवान् यत् ते अस्मिन् अभियाने उत्साहेन भागं गृह्णन्तु तथा स्वेषु गृहेषु प्रतिष्ठानेषु च राष्ट्रध्वजं तिरङ्गम् अवश्यं उत्तोलयन्तु।
सः सामाजिकमाध्यमस्य ‘एक्स’-पटले लिखितवान्— “विजयी विश्व तिरङ्गा प्यारा, झण्डा ऊँचा रहे हमारा...” अद्य भोपालनिवासे ‘तिरङ्गम्’ उत्तोल्य ‘हर घर तिरंगा’ अभियानस्य शुभारम्भं कृतवान्। येषां बलिदानेन वयं स्वातन्त्र्यं प्राप्तवन्तः, तान् सर्वान् अमरहुतात्मनः स्वातन्त्र्य-सेनानींश्च अहं नमनं करोमि।
अस्मिन् पावनेऽवसरे मुख्यमन्त्रिनिवासे स्थितेन समस्तेन कर्मचारिवर्गेण सह ‘तिरङ्गायात्रायाम्’ अपि सहभागिता कृता। आगच्छन्तु, त्रिरङ्गस्य आन-बान-शानम् अर्थात् गौरवं सर्वोच्चं स्थापयित्वा वयं सर्वे संकल्पं कुर्मः यत् देशस्य स्वातन्त्र्यस्य, एकतायाः, अखण्डतायाश्च रक्षणाय सदैव स्वकीयदायित्वानां निर्वहणं करिष्यामः। जय हिन्द्!
Hindusthan Samachar / Divya Ranjan