Enter your Email Address to subscribe to our newsletters

रायपुरम्, 09 अगस्तमासः (हि.स.)।
मुख्यमन्त्री विष्णुदेवसायः रविवासरे जशपुरजनपदस्य प्रवासे स्थास्यति। निर्धारितकार्यक्रमानुसारं सः प्रातः सार्धैकादशवादने रायपुरविमानपत्तनात् जशपुरस्य कृते प्रस्थास्यति तथा मध्याह्ने सार्धद्वादशवादने कुनकुरीं प्राप्स्यति।
सः कुनकुर्याम् आयोज्यमानायाः मुख्यतिरङ्गायात्रायाः नेतृत्वं करिष्यति तथा स्थानीयजनान् सम्बोधयिष्यति। ततः सः कुनकुर्याः अग्रसेनभवने आयोज्यमाने विशेषकार्यक्रमे अपि सहभागं करिष्यति।
कुनकुर्याः कार्यक्रमान् समाप्य मुख्यमन्त्री मध्याह्ने द्विवादने स्वग्रामस्य बगियायाः निवासस्थानं प्रति प्रस्थास्यति। तत्र सः स्थानीयजनप्रतिनिधिभिः ग्रामवासिभिश्च सह मिलित्वा तेषां वार्तां श्रोष्यति।
Hindusthan Samachar / Dheeraj Maithani