Enter your Email Address to subscribe to our newsletters

बांदा, 09 अगस्तमासः (हि.स.)।
उत्तरप्रदेशस्य बांदाजनपदे बांदाकृषिप्रौद्योगिकीविश्वविद्यालयस्य द्वादशं दीक्षान्तसमारोहम् आगामीद्वादशे अगस्तमासे २०२६ तमे वर्षे आयोजयिष्यते। अस्य समारोहस्य अध्यक्षतां उत्तरप्रदेशस्य राज्यपाला विश्वविद्यालयस्य कुलाधिपतिश्च श्रीमती आनन्दीबेन पटेल् करिष्यति। अन्ताराष्ट्रियख्यातिप्राप्तः कृषिप्रसारवैज्ञानिकः योजनायोगस्य पूर्वसदस्यश्च डॉ. वी.वी. सदामते मुख्यातिथिरूपेण समुपस्थितो भविष्यति।
डॉ. वी.वी. सदामते महोदयेन कृषिक्षेत्रे महत्त्वपूर्णं योगदानं प्रदत्तम्। तेन संयुक्तराष्ट्रसङ्घस्य खाद्यकृषिसङ्घटने प्रधानपरामर्शकरूपेण सेवापि कृता। तदतिरिक्तं विश्वबैङ्केन पोषितायां जलागमपरियोजनायां कृषिविशेषज्ञत्वेनापि तेन कार्यं कृतम्।
विश्वविद्यालयस्य द्वादशे दीक्षान्तसमारोहे अस्मिन् वर्षे कुलं २५० विद्यार्थिभ्यः उपाधयः प्रदास्यन्ते। तेषु कृषिविज्ञानस्य, उद्यानविज्ञानस्य, वानिकीविज्ञानस्य, सामुदायिकविज्ञानस्य च महाविद्यालयानां १८७ स्नातकविद्यार्थिनः सम्मिलिताः सन्ति। तदतिरिक्तं ३७ स्नातकोत्तरविद्यार्थिभ्यः २६ पीएच.डी. शोधार्थिभ्यश्च उपाधयः प्रदास्यन्ते।
विश्वविद्यालयस्य कुलसचिवः प्रो. एस.के. सिंहः रविवासरे अवदत् यत् विभिन्नेषु पाठ्यक्रमेषु योग्यताक्रमानुसारं प्रथमं, द्वितीयं, तृतीयं च स्थानं प्राप्तेभ्यः विद्यार्थिभ्यः अस्मिन् वर्षे षट् सुवर्णपदकानि, षट् रजतपदकानि, षट् कांस्यपदकानि च प्रदास्यन्ते। उत्कृष्टप्रदर्शनं कृतवते एकस्मै स्नातकविद्यार्थिने कुलाधिपतिपदकेनापि सम्मानं प्रदास्यते।
कुलपतेः प्रो. एस.वी.एस. राजू इत्यस्य मार्गदर्शनेन अस्मिन् वर्षे दीक्षान्तसमारोहस्य व्यवस्थायां विशेषाः परिवर्तनाः कृताः सन्ति। सर्वेभ्यः विद्यार्थिभ्यः तेषाम् उपाधयः मुख्यातिथिना दीक्षान्तमञ्चादेव प्रदास्यन्ते।
द्वादशस्य दीक्षान्तसमारोहस्य विशेषता एषापि भविष्यति यत् सर्वे छात्राः, छात्र्यश्च शिक्षकाः च पारम्परिकभारतीयवेषभूषया समारोहस्य सहभागी भविष्यन्ति। छात्रेभ्यः कुर्तकं पगडी च, छात्राभ्यः साडी पगडी च निर्धारिते स्तः। अनेन दीक्षान्तसमारोहे भारतीयसंस्कृतेः परम्परायाश्च मनोहरदृश्यं द्रष्टुं शक्यते।
---------------
Hindusthan Samachar / Dheeraj Maithani