राष्ट्रिय हितानां संप्रभुतायाश्च रक्षायै सर्वैः तत्परैः भवितव्यम्- उप राष्ट्रपतिः
श्री विजयपुरम् (पोर्ट ब्लेयर), 09 अगस्तमासः (हि.स.)। उपराष्ट्रपतिः सी. पी. राधाकृष्णन् रविवासरे अण्डमान-निकोबारद्वीपसमूहे ‘हर घर तिरङ्गा’ अभियानस्य शुभारम्भं कुर्वन् अवदत् यत् भारतस्य शान्तिः उदारता च कदापि दुर्बलता इति न मन्येते। सः नागरिकान् आह
उपराष्ट्रपति सीपी राधाकृष्णन अंडमान और निकोबार द्वीप में मौजूद।


श्री विजयपुरम् (पोर्ट ब्लेयर), 09 अगस्तमासः (हि.स.)।

उपराष्ट्रपतिः सी. पी. राधाकृष्णन् रविवासरे अण्डमान-निकोबारद्वीपसमूहे ‘हर घर तिरङ्गा’ अभियानस्य शुभारम्भं कुर्वन् अवदत् यत् भारतस्य शान्तिः उदारता च कदापि दुर्बलता इति न मन्येते। सः नागरिकान् आह्वयन् अवदत् यत् राष्ट्रियहितानां सम्प्रभुतायाश्च रक्षणाय सर्वदा तत्पराः भवितव्यम्। तिरङ्गध्वजात् प्रेरणां प्राप्य साहसस्य, एकतायाः आशायाश्च सञ्चारं कुर्वन्तः सुदृढस्य विकसितस्य च भारतस्य निर्माणे स्वातन्त्र्यसेनानिनां विरासतं अग्रे नेतव्यम्।

उपराष्ट्रपतिः सी. पी. राधाकृष्णन् अद्य अण्डमान-निकोबारद्वीपसमूहस्य राजधानी श्रीविजयपुरमस्य अर्थात् पोर्टब्लेयरस्य ऐतिहासिके फ्लैगपॉइण्ट् इत्याख्ये स्थले राष्ट्रियध्वजं आरोप्य ‘हर घर तिरङ्गा’ अभियानस्य शुभारम्भं कृतवान्। श्रीविजयपुरमस्य ऐतिहासिके फ्लैगपॉइण्ट् स्थले नेताजी सुभाषचन्द्रबोसः ३० दिसम्बर १९४३ तमे वर्षे तिरङ्गध्वजम् आरोपितवान् आसीत्।

उपराष्ट्रपतिः अस्मिन् अवसरे ‘हर घर तिरङ्गा’ अभियानस्य महत्त्वं प्रतिपादयन् अवदत्, प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रारब्धम् इदं अभियानम् अधुना राष्ट्रव्यापिनः जनान्दोलनस्य रूपं प्राप्तवान् अस्ति। प्रत्येकं नागरिकः तिरङ्गध्वजं गौरवेण आरोपयतु, देशभक्तेः, एकतायाः सामूहिकदायित्वस्य च मूल्यानि आत्मसात् करोतु।

महान् तमिलकविः सुब्रह्मण्यभारती इत्यस्य अमरवचनानि स्मरन् राधाकृष्णन् अवदत् यत् भारतीमहोदयेन मह्यमानः ‘मणिकोडी’ उत्सवः भारतीयभावनायाः शाश्वतसाहसं भारतमातुः ध्वजस्य च गौरवं प्रदर्शयति। ‘हर घर तिरङ्गा’ अभियानम् एतां भावनां अग्रे नयन् सर्वान् नागरिकान् एकेन राष्ट्रियध्वजेन, एकया मातृभूम्या, एकेन च सामूहिकभविष्येण सह एकीकुरुते।

सः अवदत् यत् अण्डमान-निकोबारद्वीपसमूहः भारतस्य केवलं भौगोलिकः भागः नास्ति, अपि तु एषः बलिदानानां पवित्रः प्रदेशः अस्ति। सः वीरसावरकरं तथा सेल्युलरकारागारे बद्धान् असंख्याकान् अन्यान् देशभक्तान् च भावपूर्णां श्रद्धाञ्जलिं समर्पयन् अवदत् यत् तेषां साहसं, देशभक्तिः बलिदानं च संततीः निरन्तरं प्रेरयिष्यति।

उपराष्ट्रपतिः अवदत् यत् सर्वे द्वीपाः ‘विविधतायाम् एकता’ ‘एकभारतं श्रेष्ठभारतं’ इत्यनयोः जीवत्प्रतिमूर्तयः सन्ति। अत्र समृद्धा जनजातीयविरासत् अस्ति तथा सम्पर्कव्यवस्थायां, स्वास्थ्यसेवायां, शिक्षायां, आधारभूतसंरचनायां च महती प्रगतिः अभवत्। सः अवदत् यत् ग्रेट् निकोबारद्वीपस्य विकासपरियोजना भारतस्य सामुद्रिकक्षमतां, सम्पर्कव्यवस्थां आर्थिकावसरांश्च अधिकं सुदृढं करिष्यति, तथैव विकासस्य पर्यावरणसंरक्षणस्य च मध्ये सन्तुलनम् अपि स्थापयिष्यति।

भारतस्य शान्तेः उदारतायाश्च परम्परया सह राष्ट्रियशक्तेः आवश्यकतायाः विषये बलं दत्त्वा राधाकृष्णन् अवदत्, “भारतः सर्वदा उदारः एव आसीत्, किन्तु अस्माकम् उदारतां कदापि दुर्बलता इति न मन्येत।”

उपराष्ट्रपतिः एकस्मिन् सांस्कृतिककार्यक्रमे अपि भागं गृहीतवान् तथा ‘हर घर तिरङ्गा’ प्रदर्शन्याः अवलोकनं कृतवान्। अस्मिन् कार्यक्रमे अण्डमान-निकोबारद्वीपसमूहस्य उपराज्यपालः एडमिरल् डी. के. जोशी सेवानिवृत्तः, मुख्यसचिवः चञ्चल यादवः, विजयपुरमनगरपरिषदः अध्यक्षा एम्. वसन्ता, जिलापरिषदः अध्यक्षः पी. उमरः इत्यादयः अन्ये गणमान्यजनाः उपस्थिताः आसन्।

---------------

Hindusthan Samachar / Dheeraj Maithani